SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तथा चोदाहरणमत्र - इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, स च तासां गवमतिबाहुल्यात् सहस्रादिसंख्यामितानां पृथक् पृथगनुपालनार्थं प्रभूतान् गोपांश्चक्रे, तेऽपि च परस्परसंमिलितासु तासु गोष्वात्मीयाः सम्यगजानानाः सन्तोऽकलहयन्, तांश्च परस्परतो विवदमानानुपलभ्य असौ तेषामव्यामोहार्थं अधिकरेणव्यवच्छित्तये च रक्तशुक्लकृष्णकर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवान् इत्येष दृष्टान्तः, अयमर्थोपनयः - इह गोपपतिकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्यो गोरूपसदृशं पुद्गलास्तिकायं परमाण्वादिवर्गणाविभागेन निरूपितवानिति अलं प्रसङ्गेन, पदार्थः प्रतिपाद्यते - तत्र औदारिकग्रहणाद् औदारिकशरीरग्रहणयोग्या वर्गणाः परिगृहीताः, ताश्चैवमवगन्तव्याः - इह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा - द्रव्यतः क्षेत्रतः कालतः भावतश्च तत्र द्रव्यत एकप्रदेशिकानां यावदनन्तप्रदेशिकानां क्षेत्रत एकप्रदेशावगाढानां यावदसंख्येय प्रदेशावगाढानां कालत एकसमयस्थितीनां यावदसंख्येय समयस्थितीनां, भावतस्तावत् परिस्थूरन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां ए सुरभि गन्धानां दुरभिगन्धानां चर, तिक्तरसानां यावन्मधुररसानां ५, मृदूनां यावद्भूक्षाणां ८ गुरुलघूनामगुरुलघूनां च एव | मेता द्रव्यवर्गणाद्या वर्गणाश्चतुर्विधा भवन्ति, प्रकृतोपयोगः प्रदर्श्यते - तत्र परमाणूनामेका वर्गणा, एवं द्विप्रदेशिकानामप्येका, एवमेकैकपरमाणुवृद्ध्या संख्येयप्रदेशिकानां संख्येया वर्गणा असंख्येयप्रदेशिकानां चासंख्येयाः ततोऽनन्त १ गाः २ कलहः ३ समुदायान्. ४ कुचिकर्णधनपतिः ५ गोरूपाणि धेनवः ६ अवयचे समुदायोपचारात् प्रकरणाद्वा. ७ परमाणूनामपि प्रकृष्टदेशत्वात्. ८ लोकाकाशेऽवगाहनात् तस्य चैतावत्प्रमाणत्वात् ९ अनन्तसमयान् यावदवस्थानाभावात् ११ स्वस्वस्थान एकगुणादिनाऽनन्तभेदवश्वात् प्रत्येकं. * द्वित्रि० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy