SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥ ३३ ॥ अन्तरे, अथवा 'अन्तरे' इति पाठान्तरमेव, एतदुक्तं भवति - तैजसवाग्द्रव्याणामन्तर इत्यन्तराले अत्रे तदयोग्यमन्य| देव द्रव्यं 'लभते' पश्यति, कोऽसावित्यत आह- 'प्रस्थापकः' प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदिति, अत आह— 'गुरुलध्वगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति - गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति । तत्र यत्तैजसद्रव्यासन्नं तद्गुरुलघु, यत्पुनर्भाषाद्रव्यासन्नं तद्गुरुलघु, 'तदपि च ' अवधिज्ञानं प्रच्यवमानं सत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवतीत्यर्थः । तत्र अपिशब्दात् यत्प्रतिपाति तत्रायं क्रमो न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः, चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः - तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः ॥ ३८ ॥ आह— कियत्प्रदेशं तद् द्रव्यं, यत् तैजसभाषा द्रव्याणामपान्तरालवर्त्ति जघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमोपचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाह - ओरालविउच्वाहारतेअभासाणपाणमणकम्मे । अह दव्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥ ३९॥ कम्मोवरिं धुवेयर सुण्णेयरवग्गणा अनंताओ । चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥ ४० ॥ | प्रथमगाथा व्याख्या - आह - औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति, उच्यते, विनेयानामव्यामोहार्थ, १ मध्यार्थोऽत्रान्तरः २ मध्यभागे तैजसभाषयोः ३ तजसभाषयोः ४ समुच्चयाय ५ हीयमानम्. ६ अवधिः ७ तैजसभाषाऽयोग्यद्रव्यान्तदर्शनानन्तरप्रच्युतिरूपेण ८ मत्यादीनि. * प्रच्यवत इत्यर्थः २-५ + ०णुपाण० Jain Education International For Personal & Private Use Only हारिभद्र यवृत्तिः विभागः ॥ ३३ ॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy