SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ CAMEREKACROCALCOLOROGRESCRECARSA लक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालाद् असंख्येयगुणं क्षेत्रं, कुत एतत् ?, अत आह| सुहुमो य होइ कालो, तत्तो सुहमयरं हवइ खित्तं । अङ्गुलसेढीमित्ते, ओसप्पिणीओ असंखेजा ॥ ३७॥ व्याख्या-'सूक्ष्मः' श्लक्ष्णश्च, भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि 'ततः कालात् , सूक्ष्मतरं भवति क्षेत्रं, कुतः ?, यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः, तीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति–अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशाग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः॥ ३७ ॥ उक्तमवधेर्जघन्यादिभेदभिन्न क्षेत्रपरिमाणं, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणैवावधेरिति व्यपदिश्यते, अतः क्षेत्रस्य द्रव्यावधिकत्वात् तदभिधानानन्तरमेव अवधिपरिच्छेदयोग्यद्रव्याभिधित्सयाऽऽहतेआभासाव्वाण, अन्तरा इत्थ लहइ पट्टवओ। गुरुलहुअअगुरुलहुअं, तंपि अ तेणेव निट्ठाइ ॥ ३८॥ व्याख्या-अवधिश्च जघन्यमध्यमोत्कृष्टभेदभिन्नः, तत्र तावज्जघन्यावधिपरिच्छेदयोग्यमेवादावभिधीयते-तैजसं च भाषा च तैजसभाषे तयोर्द्रव्याणि तैजसभाषाद्रव्याणि तेषामिति समासः, 'अन्तरात्' इति 'अर्थाद्विभक्तिपरिणामः' १ विधेयस्य. २ चकारो वाक्यभेदक्रमोपदर्शनार्थः (इति मलय गिरिपादाः) ३ वक्ष्यमाणमसंख्येयावसर्पिणीमानम्. ४ एकप्रमाणाङ्गुलमात्रे श्रेणिरूपे नभःखण्डे ( नन्दीवृत्तिः १६६५०)५प्रदेशसंख्यानं. ६ साक्षाद्दर्शनाभावादुपचारेणेत्यर्थः ७ मर्यादार्थोऽवधिः ८ व्यमिति. * अन्तरे ५-६ CASEARCRACARRC dain Education International For Personal & Private Use Only D ainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy