SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ TO SUSTISSRUSSESSEX रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः॥३४॥चतुर्थगाथा व्याख्यायते-संख्यायत इति संख्येयः,सच संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-संख्येयो वर्षसहस्रात्परतोऽभिगृह्यते इति, तस्मिन् संख्येये,81 |'काले' कलनं कालः तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया,द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति । |संख्ययाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति, तथा काले असंख्येये पल्योपमादिलक्षणेऽवधिविषये सति, तस्यैव । असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च 'भक्तव्या' विकल्पयितव्याः, कदाचिदसंख्येया एव,8 यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्ययाः कदाचिद् ऐकः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा, योजनापेक्षया च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः ॥३५।। एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्ध्या कालवृद्धिरनियता कालवृद्ध्या च क्षेत्रवृद्धिः प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यद्वद्धौ यस्य वृद्धिर्भवति यस्य वा न भवति अमुमर्थमभिधित्सुराह___ काले चउण्ह वुड्डी, कालो भइयव्यु खित्तवुड्डीए । वुड्डीइ दव्वपज्जव, भइयव्वा खित्तकाला उ॥३६॥ अनुयोगद्वारसूत्राभिप्रायेणैकादशे तय॑भिप्रायेण तु त्रयोदशे. २ यावत् शीर्षप्रहेलिकेति ज्ञेयं, अत एव संख्यायत इति संख्येय इति व्युत्पत्तिः, संव्यवहार्या च तावत्येव संख्या. ३ अभ्यन्तरावध्यपेक्षया ४ तिर्यग्लोकमध्यभागगताः ५ असंख्येययोजनविस्तृतः ६ स्वयम्भूरमणादेः ७ अतिविस्तृतत्वात्तस्य. ८ आत्मन्यसंबद्धत्वात्. ९न द्वीपसमुद्रापेक्षयेति. १०नियतेति शेषः, क्षेत्रस्य प्रदेशानुसारेण वृद्धी कालस्य न समयानुसारेण वृद्धिः,अङ्गुलमात्रे नमःखण्डेऽसंख्येयोत्सर्पिण्यवसर्पिणीभावात् , अत्र तु न विरोध इति नियता वृद्धिः, अत एव परिस्थूरेति प्राग्विमन्यमेति च भणने संगतिः, यथावत्तया क्षेत्रकालवृद्धिव्यात्यभावात् चतुणी समप्रमाणमाश्रित्येति वा. * तमर्थ० ५-६ + भइयत्व ४. For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy