________________
आवश्यक-
हारिभद्री| यवृत्तिः विभागः१
॥३१॥
चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्तिनः पश्यति, न तु क्षेत्रकॉलौ, मूलद्रव्यालम्बनत्वात्तस्येति । एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा 'द्वयोः' अङ्गलावलिकयोः संख्ययो भागौ पश्यति, अङ्गलसंख्ययभागमानं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, तथा अङ्गुलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालतः आवलिकां पश्यन् क्षेत्रतोऽङ्गलपृथक्त्वं पश्यति, पृथक्वं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः ॥ ३२॥ द्वितीयगाथाव्याख्या-'हस्ते'| इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्त्तान्तः पश्यति, भिन्नं मुहूर्त्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः पश्यतीत्युच्यते, तथा कालतो 'दिवसान्तो' भिन्नं दिवसं पश्यन् क्षेत्रतोगव्यूतं'इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयः क्षेत्रतोऽवधिःकालतो दिवसपृथक्त्वं पश्यति, तथा, पक्षान्तो'भिन्नं पक्षं पश्यन् कालतःक्षेत्रतः पञ्चविंशति योजनानि पश्यतीति द्वितीयगाथार्थः॥३३॥ तृतीयगाथा व्याख्यायते-भरते' इति भरतक्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूद्वीपविषये चावधी साधिको मासः, वर्ष चमनुष्यलोकविषयेऽवधौ इति,मनुष्यलोकः खल्वर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च
॥३१॥
उपचाराभावेऽनिष्टतां दर्शयति इतः तस्येतीत्यन्तेन. २ विवक्षितेति. ३ विवक्षित क्षेत्रस्थितव्यपर्यायान, कालज्ञानव्याख्यानायेदम्. ४ अवधेः प्रत्य-IC | क्षत्वात् न साक्षात्पश्यतीति. ५ न्यूनां समयादिना. ६ अन्यत्र द्वितीयान्तं पदमिति कर्मतोपपत्तिः, अन तु सप्तम्पन्तत्वाद्धस्तप्रमाणक्षेत्रस्थितद्रव्यदर्शनसमर्थाऽव. |धि द्य इत्युपचारहेतुः, अग्रेऽपीशे स्थले. ७ अर्धमासशब्दस्य प्रथमान्तत्वात् नात्रोपचारेण व्याख्यानं हस्त इत्यत्रेव, किन्तु सतिसप्तम्यन्ततया. 6 आ मानुषीत्तरात् , मनुष्याणां गमागमेऽपि रुचकादिषु न ते तजन्मादिस्थानं. * पक्षान्तः १-२
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org