________________
पर्यन्तेन भ्राम्यते, सा च असंख्येयान् अलोके लोकमात्रान् क्षेत्रविभागान् व्यानोति, एतावदवधिक्षेत्रं उत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तदा पश्यति न त्वलोके द्रष्टव्यमस्ति इति गाथार्थः ॥३॥ एवं तावजघन्यमुत्कृष्टं चावधिक्षेत्रमभिहितं, इदानीं विमध्यमप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भः, तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रदर्शनाय चेदं गांथाचतुष्टयं जगाद शास्त्रकारः
अंगुलमावलियाणं, भागमसंखिज दोसु संखिज्जा । अंगुलमावलिअंतो, आवलिआ अंगुलपुहुत्तं ॥३२॥ द हत्थंमि मुहुत्तन्तो, दिवसंतो गाउयंमि बोडव्यो । जोयण दिवसपुहुत्तं, पक्खन्तो पण्णवीसाओ॥३३॥
भरहंमि अद्धमासो, जंबूदीवंमि साहिओ मासो। वासं च मणुअलोए, वासपुहुत्तं च रुयगंमि ॥ ३४॥ संखिजंमि उ काले, दीवसमुद्दावि हुंति संखिजा । कालंमि असंखिजे, दीवसमुद्दा उ भइयव्वा ॥ ३५॥
प्रथमगाथाव्याख्या-'अङ्गलं' क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्च उच्छ्याङ्गलमित्येके, 'आवलिका' असंख्येयसमयसंघातोपलक्षितः कालः, उक्तं च-"असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं साएगा आवलियत्ति वुच्चति' | अङ्गुलं चावलिका च अङ्गालावलिके तयोरङ्गलावलिकयोः, 'भाग' अंशं असंख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति|क्षेत्रमङ्गलासंख्येयभागमात्रं पश्यन् कालतः आवलिकाया असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति, क्षेत्रकालदर्शनं
रूपिविषयत्वादवधेरलोके च तादृशद्व्याभावादसंभवाभिधानतादोषनिराकरणायाह.२ लोके तु सूक्ष्मसूक्ष्मतरादिवस्तुदर्शनेन सामर्थ्यवृद्धिः (विशेषा| वश्यके गाथा ६०६) ३ स्वापेक्षितजघन्यमध्यमोत्कृष्टत्वात्. ४ असंख्येयानां समयानां समुदयसमितिसमागमेन सैकाऽऽवलिकेत्युच्यते (अनुयोगद्वारवृत्तिः ४३०प०)५ क्षेत्रकालयोररूपित्वावधेश्च रूपिविषयत्वादाह.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org