________________
आवश्यक
विशेषणं 'यावत्' यावत्परिमाणं 'भृतवन्तो' व्याप्तवन्तः 'क्षेत्रं' आकाशं, एतदुक्तं भवति-नैरन्तर्येण विशिष्टसूचीरचनया निहारिभद्रीयावत् भृतवन्त इति । भूतकालनिर्देशश्च अजितस्वामिकाल एव प्रायः सर्वबह्वोऽनलजीवा भवन्ति अस्यामवसर्पिण्यां यवृत्तिः इत्यस्यार्थस्य ख्यापनार्थः, इदं चानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह–'सर्वदिक्कं' अनेन सूचीपरि
विभागः१ भ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावधिः, 'क्षेत्रं' अनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः,प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भवति। अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिक्कं एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः । इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबह्वग्निजीवा बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति । तेषां च स्वबुद्ध्या षोढाऽवस्थानं कल्प्यते-एकैकक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथम, स एव जीवः स्वावगाहनया द्वितीयं, एवं प्रतरोऽपि द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित्समैयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीर-15
मतरोऽपि विभेदः क्षत्रप्रदेश एकैकजीवाष्पादिनस्तत्रैवावरुध्यन्त, वा वादराः मा
॥३०॥
१ अग्निशरीरावगाहनारचनया. २ रूपान्तरेण. ३ भन्न पक्षे अनलजीवमितक्षेत्रस्थितद्व्यपरिच्छेदशक्तिः ४ मनुष्यार्थपरं पुरुषपदं. ५ अनन्तानन्ताद्र स्ववसर्पिणीषु कमिश्रिदेव द्वितीयतीर्थकरकाले एते, तदानींतना एवोत्कृष्टा बादरा माझाः, बादरजीवमाने क्षिप्यन्त इति. एकैकस्मिन्प्रदेशे एकैकजीवस्था
पनेनेत्यर्थः, “ शरीरद्वारेत्यर्थः ९ असंख्याकाशप्रदेशानन्तरेणावगाहनाऽभावात् इतिमलधारिहेमचन्द्रपादाः ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org