________________
हारिभद्रीयवृत्तिः विभागः१
आवश्यक- शरोध इति । तत्र 'अवधिरिति' अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, तथा अवधिशब्दो द्विरावर्त्यते इति
व्याख्यातमिति । तथा क्षेत्रपरिमाण' इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति । अथवा 'अर्थाद्वि॥२८॥
भक्तिपरिणाम' इति द्वितीयैवेयं, ततश्च अवधेर्जघन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रप्रमाणं वक्तव्यं । तथा संस्थानमवधेर्वक्तव्यम् । 'आनुगामुक इति द्वारं' अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः,एकारान्तः शब्दःप्रथमान्त इतिकृत्वा, यथा 'कयरे आगच्छई' (उत्तरा० अ० १२ गा० ६) इत्यादि । तथा अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं | अप्रतिपतितः सन्नुपयोगतो लब्धितश्चावस्थितो भवति । तथा चलोऽवधिर्वक्तव्यः, चलोऽनवस्थितः, स च वर्धमानः
क्षीयमाणो वा भवति । तथा 'तीव्रमन्दाविति द्वार' तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीव्रो विशुद्धः, मन्दश्चा| विशुद्धः, तीव्रमन्दस्तूभयप्रकृतिरिति । 'प्रतिपातोत्पादाविति द्वारं' एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधेर्वक्तव्यो ॥ २७॥ द्वितीयगाथाव्याख्या-तथा 'ज्ञानदर्शनविभङ्गा' वक्तव्याः, किमत्र ज्ञानं ? किं वा दर्शनं ? को वा विभङ्गः? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति । तथा 'देशद्वारं' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम् ।। 'क्षेत्रद्वार' क्षेत्रविषयोऽवधिर्वक्तव्यः, संबद्धासंबद्धसंख्ययासंख्येयापान्तराललक्षणक्षेत्रावधिद्वारेणेत्यर्थः । 'गतिरिति च | अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति । तथा प्राप्त_नुयोगश्च कर्तव्यः, अनु| १ तत्रावध्यादीनीत्यत्र व्याख्यातमर्थतः, ततश्चानेतनेषु अवधिपदयोजना, टिप्पनके अन्ये त्वाचार्या इत्यत्रेतिव्याख्यातं, अन्न वाऽऽवृत्तिस्तथा च प्रथमान्तता प्रकृतित्वे क्षेत्रपरिमाणादौ योज्यतयेति च.२ प्रतिपत्तिरित्यर्थः, अन्यमतापेक्षयाऽदः, व्याख्यानं चातः तन्मतसकं. * अर्थवशात् ५-६
SARREARSASARAM
॥२८॥
Jain Education International
For Personal & Private Use Only
Silm.jainelibrary.org