SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ योगोऽन्वाख्यानं, एवमनेन प्रकारेण 'एता' अनन्तरोताः 'प्रतिपत्तयः' प्रतिपादनानि, प्रतिपत्तयः परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाथाद्वयसमुदायार्थः ॥ २८ ॥ साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाहनाम ठवणादविए, खित्ते काले भवे य भावे य। एसो खलु निक्खेवो ओहिस्सा होइ सत्तविहो ॥ २९॥ व्याख्या-तत्र नाम पूर्व निरूपित, नाम च तदवधिश्च नामावधिः, यस्यावधिरिति नाम क्रियते, यथा मर्यादायाः । तथा स्थापना चासाववधिश्च स्थापनावधिः, अक्षादिविन्यासः। अथवा अवधिरेव च यदभिधानं वचनपर्यायः स नामा-13 वधिः, स्थापनावधिर्यः खलु आकारविशेषः तत्तद्रव्यक्षेत्रस्वामिनामिति । तथा द्रव्येऽवधिव्यावधिः, द्रव्यालम्बन इत्यर्थः । अथवाऽयं एकारान्तः शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यद्वोत्पद्यमानस्योपकारक शरीरादि तदवधिकारणत्वाद् द्रव्यावधिः। तथा क्षेत्रेऽवधिःक्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात् क्षेत्रावधिः, प्रतिपाद्यते वा । तथा कालेऽवधिः, कालावधिः अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वा स कालावधिः, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः । भावः क्षायोपशमिकादिः द्रव्यपर्यायो वा, तस्मिन्नवधिः भावावधिः, चशब्दौ समुच्चयार्थी, 'एषः' अनन्तरव्यावर्णितः, खलुशब्दः एवका भवधियंत्र क्षेत्रे व्याख्यायते स क्षेत्रावधिरित्यर्थः * अवधेरेव १-५ + तद्र० १-२-३ भावावधेः का० ५ : ०वध्यधिकरणत्वात् एवं. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy