SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ नारकामरभवे सति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता इति गाथार्थः॥ २५ ॥ साम्प्रतं सामान्यरूपतया उद्दिष्टानां अवधिप्रकृतीनां वाचः क्रमवर्तित्वाद् आयुषश्चाल्पत्वात् यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकारः| कत्तो मे वण्णे, सत्ती ओहिस्स सव्वपयडीओ?। चउद्सविहनिक्खेवं, इड्डीपत्ते य वोच्छामि ॥२६॥ व्याख्या-कुतो ? 'मे' मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृती?, आयुषः परिमितत्वाद् वाचः क्रमवृत्तित्वाच्च, तथापि विनेयगणानुग्रहार्थ, चतुर्दशविधश्चासौ निक्षेपश्चेति समासः, तं अवधेः संबन्धिनं, आमोषध्यादिलक्षणा प्राप्ता ऋद्धियैस्ते प्राप्तर्धयः तांश्च, इह गाथाभङ्गभयाद्व्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति, चशब्दः समुच्चयार्थः, 'वक्ष्ये' अभिधास्य इति गाथार्थः॥२६॥ यदुक्तं 'चतुर्दशविधनिक्षेपं वक्ष्ये' इति, तंप्रतिपादयंस्तावद्द्वारगाथाद्वयमाह ओही १खित्तपरिमाणे,२संठाणे ३ आणुगामिए ।अवढिए५चले ६तिव्वमन्द ७ पडिवाउत्पयाइ ८ अ॥२७॥ नाण९दसण १० विब्भंगे ११, देसे १२ खित्ते १३गई १४ ईअ । इड्डीपत्ताणुओगे य, एमेआ पडिवत्तिओ॥२८॥ __व्याख्या-तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चसमुच्चितत्वात् पञ्चदशं । अन्ये त्वाचार्या अवधिरित्येतत्पदं परित्यज्य आनुगामुकमनानुगामुकसहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि !, अवधेरेव प्रकृतयः चिन्त्यन्ते, यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति । पक्षद्वयेऽपि अवि-12 कारणकारणे कारणत्वोपचारात् , प्रयोजनं तु तदुदयनान्तरीयकताज्ञापनं, अन्यथासिद्धत्वं त्ववश्यक्लप्तत्वासात्र. २ संखाईआओ खलु ओहीनाणस्स सव्वपयडीओ' त्ति पूर्वार्धन. ३ षड्विंशतितमगाथायां 'चउद्दसविह निक्खेवं इडीपत्ते य' इत्यत्र चस्योकसमुच्चयार्थत्वाच्चशब्दसमुच्चयनं. * गए ४ + इआ Jan Education www.jainelibrary.org a For Personal & Private Use Only nal
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy