________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥२६॥
वार्थः, पुनः कथितं तच्छृणोति, श्रुत्वा गृह्णाति, गृहीत्वा चेहते पर्यालोचयति किमिदमित्थं उत अन्यथेति, चशब्दः। समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किञ्चित् स्वबुद्ध्याऽपि उत्प्रेक्षते, 'ततः' तदनन्तरं 'अपोहते च' एवमेतत् यदादिष्टमाचार्येणेति, पुनस्तमर्थमागृहीतं धारयति, करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्ति- हेतुर्भवत्येव, तदावरणकर्मक्षयोपशमादिनिमित्तत्वात्तस्येति । अथवा यद्यदाज्ञापयति गुरुः तत् सम्यगनुग्रहं मन्यमानः श्रो| तुमिच्छति शुश्रूषति, पूर्वसंदिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः तत् सम्यक् शृणोति, | शेषं पूर्ववदिति गाथार्थः॥ २२ ॥ बुद्धिगुणा व्याख्याताः, तत्र शुश्रूषतीत्युक्तं, इदानीं श्रवणविधिप्रतिपादनायाह
मूअं हुंकारं वा, बाढकारपडिपुच्छवीमंसा । तत्तो पसंगपारायणं च परिणि सत्तमए ॥२३॥ व्याख्या-'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात् , वन्दनं कुर्यादित्यर्थः, तृतीये "वाढत्कारं कुर्यात् , /बाढमेवमेतत् नान्यथेति, चतुर्थश्रवणे तु गृहीतपूर्वा-1 | परसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात् , मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति-गुरुवदनुभाषत एव सप्तमश्रवण इत्ययं गाथार्थः॥२३॥एवं तावच्छ्रवणविधिरुक्तः,इदानीं व्याख्यानविधिमभिधित्सुराह
_ सुत्तत्थोखलु पढमो,बीओxनिज्जुत्तिमीसओभणिओ।तइओय निरवसेसो,एस विहीभणिअअणुओगे॥२४॥ * तत्तत् २-३-५+ शुश्रूषते ५ शुश्रूषत इत्युक्तं ५ बाढक्कार० १-२-४ बाढकार १-२ १ बाढकरं मेवैतत् ५ = प्रसपारगमनं x मीसीओ
॥२६॥
Jain Education International
For Personal & Private Use Only
Plainelibrary.org