________________
णादि मतिज्ञानवदायोज्यं । प्रतिपादितं श्रुतज्ञानमर्थतः, साम्प्रतं विषयद्वारेण निरूप्यते, तच्चतुर्विध-द्रव्यतः क्षेत्रतः नकालतो भावतश्च, तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याणि जानीते न तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यं । इदं पुनः श्रुत
ज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थं यो यथा चास्य लाभः तं तथा दर्शयन्नाह
आगमसत्थरगहणं, जं बुद्विगुणेहि अट्टहिं दिहूँ। बिति सुयनाणलंभं, तं पुव्वविसारया धीरा ॥२१॥ __ व्याख्या-आगमनं आगमः, आडः अभिविधिमर्यादार्थत्वादू अभिविधिना मर्यादया वा गमः-परिच्छेद आगमः, स च केवलमत्यवधिमनःपर्यायलक्षणोऽपि भवति अतस्तद्व्यवच्छित्त्यर्थमाह-शिष्यतेऽनेनेति शास्त्रं-श्रुतं, आगमग्रहणं| तु षष्टितन्त्रादिकुशास्त्रव्यवच्छेदार्थ, तेषामनागमत्वात्, सम्यकपरिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात् , ततश्च आगमश्चासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिग्रहणं, यहुद्धिगुणैः वक्ष्यमाणलक्षणः करण भूतैः अष्टभिः, दृष्ट, ब्रुवते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं, तदेव ग्रहणं, ब्रुवते, के ?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः, धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थः॥ २१॥ बुद्धिगुणैरष्टभिरित्युक्तं, ते चामी
सुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हइ य ईहए 'वावि । तत्तो अपोहए या, धारेइ करेइ वा सम्मं ॥२२॥ व्याख्या-विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छ्रुतमशंङ्कितं करोतीति भा
१ तत्स्वरूपत दस्वरूपसरप्ररूपणादिद्वारातिदेशव्याख्यानेन. * प्ररूप्यते २-३ + वास्य २ हि विदिळ १-२-४-५ वीरा ३ आवि ३ ६ वा १-२-४-५६ शुश्रूपते ५ || पुनः पुनः ३-४
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org