________________
है ऊससि नीससिअं, निच्छुढं खासिअं च छीअं च। णीसिंघियमणुसार, अणक्खरं छेलियाईअं ॥२०॥ __ व्याख्या-उच्छुसनं उच्छ्रसितं, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं, निष्ठीवनं निष्ठयूतं, काशनं काशितं, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः संबन्धः, कथम् ! सेण्टितं चानक्षरश्रुतमिति वक्ष्यामः, नि:सिवनं निःसिवितं, अनुस्वारवदनुस्वारं, अिनक्षरमपि यदनुस्वारवदुच्चार्यते हुङ्कारकरणादिवत् तत् 'अनक्षर|मिति' एतदुच्छ्रसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टितं च अनक्षरश्रुतमिति । इह चोच्छसितादि द्रव्यश्रुतमात्रं, ध्वनिमात्रैत्वात् , अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं,तस्य तद्भावेन परिणतत्वात् । आह-यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, येनोच्छुसितायेवोच्यते इति, अत्रोच्यते, रूया, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्य उच्छसितायेव श्रुतमुच्यते, नचेष्टा,तेदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः ॥२०॥
'उक्तमनक्षरश्रुतद्वारं, इदानीं 'संज्ञिद्वार' तत्र संज्ञीति कः शब्दार्थः!, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, स च | त्रिविधः-दीर्घकालिकहेतुवाददृष्टिवादोपदेशाद् , यथा नन्द्यध्ययने तथैव द्रष्टव्यः, ततश्च संझिनः श्रुतं संज्ञिश्रुतं,
आदिना सीत्कारपूरकारायाः. २ घटपटादिवद्वाच्यवाचकभावतया न परिणामीति मात्रग्रहणं. ३ सूचकत्वात्. ४ करचरणादिक्रियाया अपि विवक्षितार्थ| सूचकत्वादाह. ५ श्रुतोपयुक्तस्य. ६ श्रवणव्यवहाररूपया शास्त्रज्ञलोकप्रसिद्धया. ७ रूढौ विशेषामहे माह-अथवेत्यादि. ८ निरर्थकार्थशून्यनिरासेन ९ श्रवणलक्षणान्वर्थस्याभावात् १० आदिना सेण्टितसीत्वाराद्याः, उच्छसितादीनामव्यक्तत्वाद् अनमरत्वमनुस्वारादीनां वर्णावयवत्वाद्विशेषदर्शनाय चेदम् ११ यथोत्तरविशुद्धक्रमोलानेन ज्ञापितमाह 'सणित्ति असष्णित्ति य, सञ्चसुए कालिओवएसेणं' (दि. ५२९) १२ (नन्दीवृत्तिः ३८१ प०) १३ दीर्घका-४ |लिकीसंज्ञया..णीसंघिय०+२-३-४ निःसनं २-३ | अक्षरमपि श्रुतज्ञानो०
dain Education International
For Personal & Private Use Only
www.jainelibrary.org