SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आवश्यक |हारिभद्री| यवृत्तिः विभागः१ ॥२४॥ अक्खर सण्णी सम्मं, साईयं खलु सपजवसिअं च । गमियं अंगपविट्ठ, सत्तथि एए सपडिवक्खा ॥१९॥ व्याख्या-तत्र 'अक्षरश्रुतद्वारं' इह 'सूचनात्सूत्र' इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति । तत्र अक्षरमिति, किमुक्तं भवति ?-'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रयवत इति भावार्थः, इत्थंभूतभावाक्षर कारणत्वादू अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान्क्षरति न च झीयते इत्यक्षरं, तच्च समासतस्त्रिविधं, तद्यथा-संज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति, संज्ञाक्षरं तत्र अक्षराकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुण्टिकासंस्थानश्चकार इत्यादि, तच्च ब्राहयादिलिपीविधानादनेकविधं तथा व्यञ्जनाक्षरं, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरं, तच्चेह सर्वमेव भाष्यमाणं अकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा योऽक्षरोपलम्भः तत् लब्ध्यक्षरं, तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तदाव रणक्षयोपशमो वा । अत्र च |संज्ञाक्षरं व्यञ्जनाक्षरं च द्रव्याक्षरमुक्तं, श्रुतज्ञानाख्यभावाक्षरकारणत्वात् , लब्ध्यक्षरं तु भावाक्षरं, विज्ञानात्मकत्वादिति ।। तत्र अक्षरश्रुतमिति अक्षरात्मकं श्रुतं अक्षरश्रुतं, द्रव्याक्षराण्यधिकृत्य, अथवा अक्षरं च तत् श्रुतं च अक्षरश्रुतं, भावाक्षरमङ्गीकृत्य ॥ १९ ॥ उक्तमक्षरश्रुतं, इदानीमनक्षरश्रुतस्वरूपाभिधित्सयाह | ॥२४॥ १ भाष्यमाणशब्दस्यैव व्यञ्जनाक्षरत्वादाह-भाभीत्यादि, प्रत्येकं विभिन्नाक्षराणामर्थाभिव्यञ्जकत्वाभावात् . २ रूख्यक्षराणि संज्ञाव्यञ्जनोभयरूपाण्याश्रित्य. ३ न क्षरतीत्यादिव्युत्पत्त्या चेतनामाश्नित्य. + प्रच्यवतीति. २-४. इत्थंभूतो. ३. भावाः० २-४.६ कुरण्टिसं०-२-४ कुरष्टिकासं०२ - वरणकर्म० १-२-३-४. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy