SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ इति गाथार्थः ॥ १७॥ इदानी सामान्यतयोपदर्शितानां अनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाहकत्तो मे वण्णे, सत्ती सुयणाणसव्वपयडीओ। चउदसविहनिक्खेवं, सुयनाणे आवि वोच्छामि ॥१८॥ ___ व्याख्या-कुतो ?, नैव प्रतिपादयितुं, 'मे' मम 'वर्णयितुं' प्रतिपादयितुं 'शक्तिः'सामर्थ्य, काः?-प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञानसर्वप्रकृतय इति समासः, ताः कुतो मे वर्ण यितुं शक्तिः ?, कथं न शक्तिः ?, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च-"तेऽविय है मईविसेसे, सुयणाणभंतरे जाण" ताँश्चोत्कृष्टतः श्रुतधरोऽपि अभिलाप्यानपि सर्वान न भाषते, तेषामनन्तत्वात् आयुषः परिमितत्वात् वाचः क्रमवृत्तित्वाच्चेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेप' निक्षेपणं निक्षेपो-नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं 'श्रुतज्ञाने' श्रुतज्ञानविषयं, चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यकश्रुते, श्रुताज्ञाने असंज्ञिमिथ्याश्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, 'वक्ष्ये' अभिधास्ये इति गाथार्थः॥ १८॥ साम्प्रतं चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनायाँह-.. (विशेषावश्यके १४३ ) तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि. २ असंज्ञिनां वक्ष्यमाणत्वेऽपि नियमाभावात्संज्ञिनां सम्यक्श्रुतस्य न तहहणं. ३ एकस्य परस्परविरुद्धधर्माश्रयत्वाभावादाह-दर्शनेत्यादि, दर्शनशब्दश्चात्र श्रद्धानार्थः. ४ नामस्थापनाद्र ब्याणामनादरः अप्रधानत्वादिनाऽग्रे वक्ष्य. माणत्वावा, श्रुतस्कन्धे भावभुते ये भेदाश्चतुर्दश तदपेक्षया चात्र चतुर्दशविधनिक्षेपेति, अधिकारावतरणिकैपेति च स्वरूपेति, अक्षरसंश्यादिद्वाराणां च नात एव पृथक् सूत्राणि, + नास्तीदं १-२-४-५. * चतुर्दशनिक्षेप० २. For Personal & Private Use Only wwww.jainelibrary.org Jain Education International
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy