SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ क्षायिकमपि प्रतिपत्तव्यमिति । एवं क्षायिकज्ञानवतां नारकाः प्रत्यक्षा एव, भवतोऽप्यनुमानगम्याः, तच्चेदम्-विद्यमानभोक्तकं प्रकृष्टपापफलं, कर्मफलत्वात् , पुण्यफलवत्, न च तिर्यगूनरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् , तथाऽऽगमगम्याश्च ते, यत एवमागमः-"सततानुबन्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यसूष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम् ॥१॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ॥२॥' इत्यादि, एवम्छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्वइओ तिहि उ सह खंडियसएहिं ॥६२९॥ व्याख्या-पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति ॥ अष्टमो गणधरः समाप्तः॥ ते पव्वइए सोउं अयलभाया आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६३०॥ ___ व्याख्या-पूर्ववन्नवरम्-अचलभ्राता आगच्छति जिनसकाशमिति । आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ ६३१॥ व्याख्या-सपातनिका पूर्ववत् । । किं मन्नि पुण्णपावं अत्थि न अत्थित्ति संसओ तुझं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो॥६३२॥ | व्याख्या-किं पुण्यपापे स्तः न वा ? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्च, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्तिं हृदयं च, तेषामयमर्थ इत्यक्षरार्थः । तानि Jain Education International For Personal & Private Use Only L ainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy