________________
आवश्यक
॥२५१॥
नारकाः, साक्षादनुमानतो वाऽनुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, इत्थं पूर्वपक्षमाशङ्कयं भगवानेवाह - सौम्य ! ते हि नारकाः कर्मपरतन्त्रत्वादिहागन्तुमसमर्थाः भवद्विधानामपि तत्र गमनशक्त्यभावः, कर्मपरतन्त्रत्वादेव, अतो भवद्विधानां तदनुपलब्धिरिति, क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणां प्रत्यक्षा एव, तेषां सकलज्ञानयुक्तत्वाद् अपास्तसमस्तावरणत्वात् न चाशेषपदार्थविदः साक्षात्कारिक्षायिकभावस्था न सन्ति यतो ज्ञस्वभाव आत्मा ज्ञानावरणीयप्रतिवद्धस्वभावत्वात् नाशेषं वस्तु विजानाति, तत्क्षयोपशमजस्तु तस्य स्वरूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्वहु जानाति कश्चिद्वहुतरमिति क्षायोपशमिकोऽयं ज्ञानवृद्धिभेद इति, न ह्ययं ज्ञानविशेषः खल्वात्मनस्तत्स्वाभाव्यमन्तरेणोपपद्यते इति, एवं चापगताशेषज्ञानावरणस्य ज्ञस्वभावत्वाद शेषज्ञेयपरिच्छेदकत्वमिति, तथा चास्मिन्नेवार्थे लौकिको दृष्टान्तः, यथा हि पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतस्तद| पाये प्रकाशयति, एवमात्मापि ज्ञस्वभावः कर्ममलिनः प्रागशेषं वस्त्वप्रकाशयन्नपि सम्यक्त्वज्ञानतपोविशेष संयोगोपायतोऽपेतसमस्तावरणः सर्वे वस्तु प्रकाशयति, प्रतिबन्धकाभावात्, न चाप्रतिबद्धस्वभावस्यापि पद्मरागवत्सर्वत्र प्रकाशनव्यापारा - भावः, तस्य ज्ञस्वभावत्वाद्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, न च प्रकाशकस्वभावपद्मरागेणैव व्यभिचारो भावयितव्यः, तस्य सन्निकृष्टार्थप्रकाशनात्, विप्रकृष्ट विषये तु देशविप्रकर्षेणैव प्रतिबद्धत्वादप्रवृत्तिः, न चात्मनोऽपि देशविप्रकर्ष एवापरिच्छेदहेतुः, तस्यागमगम्येषु सूक्ष्मव्यवहित विप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्यदर्शनात् तथा च परमा| णुमूलकीलोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपि दृश्यते, एवं साक्षात्कारि
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥२५१ ॥
w.jainelibrary.org