________________
आवश्यक- चामूनि वेदपदानि-पुरुष एवेदं निं सर्व मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथै- हारिभद्री.
व, तथा सौम्याचलभ्रातः! त्वमित्थं मन्यसे-दर्शनविप्रतिपत्तिश्चात्र, तत्र केषाश्चिद्दर्शनम्-पुण्यमेवैकमस्ति न पापं, तदेव यवृत्तिः चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यग्नारकादिभवफलाय,तदशेषक्षयाच्च मोक्ष इति, यथाऽत्यन्तपथ्याहारासेवना
विभाग:१ दुत्कृष्टमारोग्यसुखं भवति, किञ्चित्किञ्चित्पथ्याहारपरिवर्जनाचारोग्यसुखहानिः, अशेषाहारपरिक्षयाच सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं,न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तु तिर्यग्नरामरभवायेति, तदत्यन्तक्षयाच मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यं, तस्यैव किश्चित्किञ्चिदपकर्षादारोग्यसुखम् ,अशेषपरि-| त्यागान्मृतिकल्पो मोक्ष इति, अन्येषां तूभयमप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः संसारिणः सुखं दुःखं चास्ति, देवानामपीादियुक्तत्वात् , नारकाणामपि च पञ्चेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्यवस्तुक्षयाच्चापवर्ग इति, अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाच्च निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात् अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रायः, 'पुण्यः पुण्येने'त्यादिना प्रतिपादिता च तत्सत्ता, अतः संशयः, तत्र वेदपदानां चार्थ न जानासि, तेषामयमर्थः यथा द्वितीयगणधरे
तथा स्वभावनिराकरणयुक्तो वक्तव्यः, सामान्यकर्मसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्पर-18 ॥२५२॥ द विरुद्धत्वाद्, एतदसाम्प्रतम् , एकस्य प्रमाणत्वात् , तथा च पाटलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः
परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते, तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न
dain Educat
i
onal
For Personal & Private Use Only
www.jainelibrary.org