________________
आवश्यक
॥२२॥
नकाः, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथा- हारिभद्रीवयवार्थः॥ १५ । साम्प्रतं यथाव्यावर्णितमतिभेदसंख्याप्रदर्शनद्वारेणोपसंहारमाह
यवृत्तिः
विभागः१ आभिणिबोहियनाणे, अट्ठावीसह हवन्ति पयडीओ। अस्य गर्मनिका-'आभिनिबोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः प्रकृतयो भेदा इत्यनर्थान्तरं, कथम् ?, इह व्यञ्जनावग्रहः चतुर्विधः, तस्य मनोनयनवर्जेन्द्रियसंभवात् , अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियेषु संभवात् , एवं ईहावायधारणा अपि प्रत्येकं षड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भेदा भवन्ति । आह-पागू अव-18 ग्रहादिनिरूपणायां 'अत्थाणं उग्गहणं' इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदर्श्यन्ते ?, उच्यते, तत्र सूत्रे संख्यानियमेन नोक्काः, इह तु संख्यानियमेन प्रतिपादनादविरोध इति । इदं च मतिज्ञानं चतुर्विधं-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादे
॥२२॥
गाथार्धस्य उपसंहारवाक्यस्य वा. २ संक्षिप्ता विवृतिः. ३ प्राग्वन मनस इन्द्रियता. ४ गाथा (३). ५ तृतीयगाथारूपे. ६ अवमहादीनां | संख्याभेदं प्रत्येकं विधाय न प्रतिपादिताः, व्यञ्जनार्थाभ्यामवग्रहस्य अर्थावग्रहेहावायधारणानां च यथावदिन्द्रियादिभेदेन सूत्रे प्रतिपादनाभावात्. ७ 'आदे
| सोत्ति पगारो ओघादेखेण सबदवाईति (४०३) विशेषावश्यकवचनात् द्रव्यसामान्येन. ८न सर्विशेषैरित्यर्थः, कियतां पुनः पर्यायाणामधिगमात्. 18 नयनमनो-२-४-५.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org