________________
ततोऽतिरिक्ता अवगन्तव्या, यथेह परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशाच स्पेर्शनेति । तथा 'कालद्वारं', तत्रोपयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च, तथा तलब्धिमङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्त्त - मेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारैंद्वयं विजयादिषु गतस्य अच्युते वा वारत्रयमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थ:, नानाजीवापेक्षया तु सर्वकाल एवेति, न यस्मादाभिनिबोधिकलब्धिमच्छून्यो लोक इति । इदानीं 'अन्तरद्वारं', तत्रैकजीवमङ्गीकृत्य आभिनिबोधिकस्यान्तरं जघन्येनान्तर्मुहूर्त्त, कथम् ?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरणकर्मक्षयोपशमाद् अन्तर्मुहूर्त्त - मात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशातनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त्त इति, उक्तं च- “तित्थगर - पवयणसुयं, आयरियं गणहरं महिड्डीयं । आसोदितो बहुसो, अनंतसंसारिओ होई ॥१॥" तथा नानाजीवानपेक्ष्य अन्तराऽभाव इति । 'भाग इति द्वारं' तत्र मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्त्तन्ते इति । 'भावद्वारं' इदानीं तत्र मतिज्ञानिनः क्षायोपशमिके भावे वर्त्तन्ते मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् । तथा 'अल्पबहुत्वद्वारं', तत्राभिनिवोधिकज्ञानिनां प्रतिपद्यमानपूर्वप्रतिपन्नापेक्षया अल्पबहुत्वविभागोऽयमिति, तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमा
१ अधिकेति. २ चत्वारो दिवसका द्वावृध्वधोदिक्कौ एकश्चावगाहस्थानमिति सप्तप्रदेशा स्पर्शना. ३ 'अनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमानं, केवलमिदमन्तर्मुहूर्तमपि बृहत्तरमवसेयं' इति विशेषावश्यकवृत्तौ ४ तीर्थंकरं प्रवचनं श्रुतं आचार्य गणधरं महर्द्धिकम् (आमर्शोषध्यादिलब्धिमन्तं ) । आशातयन् बहुशः अनन्तसंसारिको भवति ॥ १ ॥ ५ भागद्वारात्पार्थक्यज्ञापनाय वारा० १-२-३-४ - ६. + आसादेतो. २- ४.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org