________________
आवश्यक-8 तमेव । कृता सत्पदप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते-तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले | हारिभद्री
कदाचिद् भवन्ति कदाचिन्नेति, यदि भवन्ति जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेश- यवृत्तिः ॥२१॥
राशितुल्या इति, पूर्वप्रतिपन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्तु एभ्यो विशे- विभागः१ पाधिका इति । उक्तं द्रव्यप्रमाणं, इदानीं 'क्षेत्रद्वारं', तत्र नानाजीवान् एकजीवं चाङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्व एवाभिनिबोधिकज्ञानिनो लोकस्य असंख्येयभागे वर्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूर्व अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्त्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठी पृथ्वीं गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तंभागेषु इति, नातः परमधः क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं प्रतिषिद्धमिति, आह-अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिकक्षेत्रसंभव इति, अत्रोच्यते, एतदप्ययुक्तं, सप्तमनरकात् सम्यग्दृष्टेरागमनस्यौप्यभावात् , कथम् ?, यस्मात् तत उद्धृतास्तियश्वेवागच्छन्तीति प्रतिपादितं, अमरनारकाश्च सम्य-IN ग्दृष्टयो मनुष्येष्वेव, इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । 'स्पर्शनाद्वारं' इदानीं, इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तु
यद्यपि द्वादशयोजनान्यलोकमुशन्ति तथापि न्यूनता तावती न विवक्षिताऽत्राल्पेति.२ अधोलोकस्य सप्त भागान् कृत्वेदमुक्त, पूर्व चतुर्दश लोकभागा | अत्र स्वधोलोकभागा इत्यत्र विवक्षैव मानं, भाष्यकारादिभिस्त्वत्रापि पञ्च चतुर्दशभागाः प्रस्यपादिषत. ३ सिद्धान्तकर्मग्रन्थोभयमतेनापि वान्तसम्यक्त्वानामेव | सप्तमनरकगमनाभ्युपगमात्. ४ गमन विषयशङ्काया अयुक्तता अपिना, यद्वा तत्क्षेत्रसंभवायोग्यता सम्यग्दृष्टेरागमनायोग्यता चेति ध्वनयितुं. ५ अधिकक्षेत्रस्य | परिग्रहोऽपिना. * स्वेतेभ्यो २-४ स्तु तेभ्यो १.
For Personal & Private Use Only
M
dain Education International
ainelibrary.org