________________
ALSO
R RECRUCk
पयोगिनस्तु पूर्वप्रतिपन्ना एव न प्रतिपद्यमानकाः । १२ अधुना आहारकद्वारं', आहारका पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगतौ पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानका इति १३ । तथा 'भाषक इति द्वारं', तत्र भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति १४ । 'परीत्त इति द्वारं', तत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति १५ । 'पर्याप्तक इति द्वार', तत्र पनिराहारादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः, ते पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपर्याप्तकास्तु षट्पर्याप्त्यपेक्षया पूर्वप्रतिपन्नाः संभवन्ति, न वितरे १६ । 'सूक्ष्म इति द्वार', तत्र सूक्ष्माः खलुभयविकलाः, बादरास्तु पूर्वप्रतिपन्ना नियमतः सन्ति, | इतरे तु विवक्षितकाले भाज्या इति १७ । तथा 'संज्ञिद्वार' तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, ते च बादरवद्वक्तव्याः , असंज्ञिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न वितर इति १८ । 'भव इति द्वारं', तत्र भवसिद्धिकाः संज्ञिवद्ध|क्तव्याः, अभवसिद्धिकास्तूभयशून्या इति १९ । 'चरम इति द्वार', चरमो भवो भविष्यति यस्यासौ अभेदोपचाराच्चरम इति, तत्र इत्थंभूताः चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्ध तु व्याख्या
संज्ञिपञ्चेन्द्रियाणां पण्णां पर्याप्तीनां संभवात् , तत्र चावश्यंभावात्तस्य. २ प्रतिपद्यमानकाः ३ भव्या इत्यर्थः ४ जातिभव्यव्यवच्छेदः फलं द्वारपार्थक्यस्य. ५ 'भाभिणिबोहियनाणं मग्गिजइ एस ठाणेस' त्ति तृतीयगाथोत्तरार्धलक्षणं. * तेषां २.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org