SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आवश्यक वन्तस्तु विवक्षितकाले प्रतिपद्यमाना भवन्ति, न तु पूर्वप्रतिपन्ना इति । निश्चयनयमतं तु मतिश्रुतावधिज्ञानिनः पूर्वप्र हारिभद्री|तिपन्ना नियमतः सन्ति, प्रतिपद्यमाना अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठा- यवृत्तिः कालयोरभेदात्, मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां विभागः१ |तूभयाभाव इति । मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, |क्रियाकालनिष्ठाकालयोश्चाभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् ९ । इदानीं 'दर्शनद्वारं', तदर्शनं चतुर्विधार चक्षुरचक्षुरवधिकेवलभेदभिन्नं, तत्र चक्षुर्दर्शनिनः अचक्षुर्दर्शनिनश्च,किमुक्तं भवति ?-दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति 'सबाओ लद्धीओ सागारोवओगोवउत्तस्स उप्र्पजइ' इति वचनात्, पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिस्तु पूर्वप्रतिपन्ना एवे, न तु प्रतिपद्यमानाः, केवलदर्शनिनस्तुभयविकला इति १० । 'संयत इति द्वारं', संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति ११ । 'उपयोगद्वार' स च द्विधा-साकारोऽनाकारश्च, तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारो ॥ २०॥ १ विशेषेति. २ ज्ञानज्ञानिनोरभेदात् आभिनिबोधिकज्ञानवन्त इति बोध्यम्. ३ साकारानाकारयोः उपयोगयोगपद्याभावात् किम्वित्यादि. ४ एतदुपयोगवन्तः, न चाहताऽत एव लब्धिचिन्ता पूर्ववत्. ५ इष्टावधारणार्थत्वादेवकारस्य प्रतिपद्यमानानां निषेधायैषः, नतु मिथ्यात्ववतां अवधिदर्शनव्यवच्छेदाय, यद्वा तद्वत्सु तद्वतामवश्यंभावात्. ६ साकारोपयोगोपयुक्तानामेव मतिज्ञानस्योत्पत्तेः ७ 'नटुंमि उ छाउमस्थिए नाणे' इति सिद्धान्तमङ्गीकृत्य. * नास्तीदम् ५-६. | + उत्पद्यन्ते ।-२-३-५-६. Jain Education International For Personal & Private Use Only M ainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy