SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ CAR तु भाज्या इति ५। तथा कषाय इति द्वार' कषायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्ना इति, तत्रायेषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, शेषेषु तु पञ्चेन्द्रियवदू योज्यम् ६ । तथा |'लेश्यासु' चिन्त्यते, तत्र श्लेषयन्त्यात्मानमष्टविधेन कर्मणा इति लेश्याः कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसंबन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवद्योजनीयं इति, आद्यासु तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति ७। तथा 'सम्यक्त्वद्वारं' सम्यग्दृष्टिः किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह–सम्यग्दृष्टिः पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभि निबोधिकज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात्, आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च । निश्चयनयस्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः प्रतिपद्यमानश्च आभिनिबोधिकज्ञान'लाभस्य, सम्यग्दर्शनसहायत्वात् , क्रियाकालनिष्ठाकालयोरभेदात्, भेदे च क्रियाऽभावाविशेषात् पूर्ववद्वस्तु नोऽनुत्पत्तिप्रसङ्गात्, न चेत्थं तत्प्रतिपत्त्यनवस्थेति ८ । तथा 'ज्ञानद्वार' तत्र ज्ञानं.पञ्च-| प्रकारं, मतिश्रुतावधिमनःपर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहारनिश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतंमतिश्रुतावधिमनःपर्यायज्ञानिनः पूर्वप्रतिपन्ना न तु प्रतिपद्यमानका इति, मत्यादिलाभस्य सम्यग्दर्शनसहचरितत्वात्, केवली तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात् , तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञान १ सास्वादनकालस्यास्पस्वादविवक्षेति मलधारिपादाः. २ शेषाणां पूर्वप्रतिपन्नत्वात् प्रतिपद्यमानत्वे भजना, पूर्वमवाप्याधुना तदुपयोगे तल्लब्धौ वा वर्त्तमाना अन्न प्रतिपन्नत्वेन ग्राह्या नतु प्रतिपद्य य उज्झितवन्तस्ते. * बन्धिषु ४. + नेई -३. + कलाभस्य १-३-५-६. बदस्तुतो०५-६. RIERROCAROSAROK For Personal & Private Use Only Jain Education Intematonal www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy