________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१.
बहत्वं वक्तव्यमिति समुदायार्थः । इदानीं प्रागुपन्यस्तैगाथाद्वयेनाभिनिबोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, कथम् !, अन्विष्यते 'आभिनिबोधिकज्ञानं किमस्ति नास्तीति,' अस्ति, यद्यस्ति व तत् ?, तेत्र 'गताविति' गतिमङ्गीकृत्यालोच्यते, सा गतिश्चतुर्विधा-नारकतिर्यङ्नरामरभेदभिन्ना, तत्र चतुष्प्रकारायामपि गतौ आभिनिबोधिकज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितैकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभि-I धीयन्ते ते ये तत्पंथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति १ तथा 'इन्द्रियद्वारे' इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पञ्चेन्द्रियाः पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया इति, द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः २ । तथा 'काय इति' कायमङ्गीकृत्य विचार्यते, तत्र त्रसकाये पूर्वप्रतिपन्ना नियमतो विद्यन्ते, इतरे तु भाज्याः, शेषकायेषु च पृथिव्यादिषु उभयाभाव इति ३ । तथा 'योग इति' त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहितवाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तभयाांव इति ४ । तथा 'वेद इति' त्रिष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे
SOCOCCASIONSOOR
॥१९॥
ज्ञानादावतिदेशसुगमत्वाय तिसृणां सहोपन्यासः, यद्वा 'आभिणिवोहियनाणं मग्गिजइ एसु ठाणेसु' तिवचनात् तिसृणां गाथानामेकवाक्यतेति सहो| पन्यासः. २ द्वारगाथयोः द्वारेषु विंशती. ३ छद्मस्थप्ररूपकापेक्षया चेद, सर्वज्ञानां तु निश्चिते एव प्रतिपद्यमानतेतरे. ४ विवक्षितलब्ध्युपयोगस्थित्यपेक्षया, न त्वपूर्वावाप्त्यपेक्षया. ५ स्थित्यपेक्षया. ६ लब्धिपर्याप्तानां, करणापर्याप्तावस्थायां भवान्तरासादितसासादनसम्यक्त्वसद्धावसंभवात्. ७ सहचरितेषु, प्रत्येकस्याग्रे | वक्ष्यमाणत्वात्. ८ विकलेपु सासादनाभ्युपगमेऽपि एकेन्द्रियेष्वनभ्युपगमात्तस्य. * नेदं ५-६.
Jain Education
For Personal & Private Use Only
Amlainelibrary.org