SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भासँग परिप्त पर्जत सुहुमे " सण्णी " य होइ भवं चरिमें"। आभिणिबोहिअनाणं, मग्गिजइ एस ठाणेसु ॥ १६५॥ व्याख्या - सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिर्द्वारैराभिनिवोधिकस्य कर्त्तव्येति, अथवा सद्विषयं पदं सत्पदं, शेषं पूर्ववत्, आह- किमसत्पदस्यापि प्ररूपणा क्रियते १ येनेदमुच्यते 'सत्पदप्ररूपणेति' क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्ग्रहणमिति, अथवा सैन्ति च तानि पदानि च सत्पदानि गत्यादीनि तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति । तथा 'द्रव्यप्रमाणं' इति जीवद्रव्यप्रमाणं वक्तव्यं, एतदुक्तं भवेति - एकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, 'क्षेत्रं' इति क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति, 'स्पर्शना च' वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह - क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः ?, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु तद्वाह्यतोऽपि भवति, अयं विशेष इति चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादि कालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः, मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्त्तन्त इति, तथा भावो वक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं च वक्तव्यं, आह-भागद्वारादेवाय मर्थोऽवगतः, ततश्चालमनेनेति, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्प १ पूर्व हि पदस्य सत्वं अत्र तु वाच्यस्येति न संभवव्यभिचाराभावेन विशेषणानर्थक्यं २ असदर्थविषयस्य ३ वाच्य विचारणाप्रक्रमात् ४ मतेर्गुणस्वात् जीवाभिन्नत्वाच्च ५ जीवद्रव्य प्रमाणस्याप्रासङ्गिकत्वापत्तेः ६ अभेदोपचारात्तद्वान्. ७ अपिनाऽवगाढक्षेत्रसमुच्चयः. ८ आदिना प्रतिपत्तिकाल: सुषमादिः ९ आदिना प्रतिपद्यमानतायाः, प्राप्तनाशोत्तरोत्पादान्तरालं प्रतिपत्त्यन्तरालं, तच्चान्तर्मुहूर्त्तादि वक्ष्यमाणं, उभयोः प्रतिपाद्यमानयोर्द्वितीयं विरहकालोऽत्र समयादिः *त्यादिः कालः १. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy