________________
आवश्यक 'तत्त्व-भेद-पर्यायैर्व्याख्या' इति न्यायात तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयग- हारिभद्रीणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराह
यवृत्तिः ॥१८॥ ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सपणा सई मई पण्णा, सव्वं आभिणिबोहियं ॥१२॥
विभागः१ व्याख्या-'ईह चेष्टायां' ईहनमीहा सतामर्थानां अन्वयिनां व्यतिरेकिणां च पर्यालोचना इतियावत्, अपोहनं अपोहः निश्चय इत्यर्थः, विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनः प्रत्ययः, मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि ।
सूक्ष्मधर्मालोचनरूपा बुद्धिरिति, तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा हमतिरित्यर्थः, सर्वमिदं 'आभिनिबोधिकं' मतिज्ञानमित्यर्थः, एवं किञ्चिद्भेदाद्भेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति गाथार्थः॥१२॥
तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानी नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाहसंतपय परूवणया दव्वपमाणं च खित्त फुसणा य । कालो अ अंतरं भाग, भावे अप्पाबहुं चेव ॥ १३ ॥
॥१८॥ गइ इंदिए य कौए, जोए वेएँ कसाय लेसासुं। सम्मतनाणंदसणसंजयउवओगे आहारे ॥१४॥
, "अस्थाणं ओग्गहणं" (गाथा ३) "उग्गह ईहावाओ य” (गाथा २) भेददर्शनद्वारा भेदलक्षणाख्यानद्वारा च. + ०लम्बनप्र० २-३-४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org