________________
तदन्तराला, इह जनसमूदायसमय इति
मुद्घातगत्या लोकापूरणमिच्छन्ति, तेषांचाद्यसमये भाषायाः खलु ऊर्धाधोगमनात् शेषदिक्षु ना मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषण-"भासासमसेढीओ, सदं जं सुणइ मीसयं सुणइ” (६)त्ति । अथ मतं व्याख्यानतोऽर्थप्रतिपत्तिः' इति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, नैं शेषदिश्विति, ततश्चौदोष इति, अत्रोच्यते, एवमपि त्रिभिः समयैर्लोकापूरणमापद्यते, न चतुःसमयसंभवोऽस्ति, कथम् ?-प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव मन्थानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह-जैनसमुदूघातवच्चतुभिरेवापूरणं भविष्यतीति को दोष इति, अत्रोच्यते, न, सिद्धान्तापरिज्ञानात्, इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, सकर्मकजीवव्यापारत्वात्तस्य, ततश्च कपाटनिवृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्रव्यान्तरवासकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुर्भिरेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात् , इत्यलमतिविस्तरेण, गमनिकामात्रमेवैतत् प्रस्तुतमिति । यदुक्तं'लोकस्य च कतिभागे कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते-'लोकस्य च' क्षेत्रगणितमपेक्ष्य 'चरमान्ते' असंख्येयभागे 'चरमान्तः' असंख्ययभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः ॥११॥
केवलिसमुद्घातमर्यादया. ऊर्ध्वाधोदण्डभागस्थितनोतुः श्रुतेर्मिश्रशब्दस्य, चतुरङ्गुलादिमानो दण्डो वक्रानुसारेण. ३ वास्पद्व्यसंभवः. ४ समुदूधातस्थ. ५ वैश्रसिकत्वाभावात्तस्य पराघात (वास्य) द्रव्याभावरहितत्वाच्च. ६ अर्धाधोदण्डभवनानन्तरं चतसृषु दिक्षु अनुश्रेणि गमनात् मन्थानसंपत्तिरित्यर्थः क्षेत्रस्य आकाशस्य गणितं लोकप्रदेशद्वारा गणनमसंख्येयरूपं. 1 नेदम्. १ श्रवणासं०. * ना. + स्वभावाच्च ४.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org