________________
आवश्यक
॥ १७ ॥
विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नः स खलु आदाननिसर्गप्रयत्लाभ्यां भिन्त्वैव विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्च अनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमानुषन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं लोकमापूरयन्ति, इह च चतुःसमयग्रहणात् त्रिपञ्चसमयग्रहणमपि प्रत्येतव्यं, तुलादिमध्यग्रहणवत्, तत्र कथं पुनस्त्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति ?, उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव षट्सु दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलयोः 'अनुश्रेणि गतिः' ( तत्त्वार्थ० अ० २ सूत्र २७ ) इति वचनात्, द्वितीयसमये तु त एव हि षटू दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथकू पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो वा भाषको वक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवेंस्थितस्तदा चतुर्भिः समयैरापूर्यत इति कथम् ?, एकसमयेन अन्तर्नाडीमनुप्रविशति, त्रयोऽन्ये पूर्ववद्रष्टव्याः, यदा तु विदिग्व्यवस्थितो वक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेनान्तर्नाडीमनुप्रविशति शेषसमयत्रयं पूर्ववद्रष्टव्यमित्येवं पञ्चभिः समयैरापूर्यत इति । अन्ये तु जैनस -
9 असंख्येयाः स्कन्धा न तु परमाणवोऽसंख्येयाः. १ तीव्रप्रयवक्तृविसृष्टदव्यापेक्षया ३ ज्ञायतेऽनेन त्रसाणां गतिर्व्यवस्थितिश्च नाड्या बहिः, जन्माद्यभावश्च नरलोकरीत्या नराणामिव न तत्रेति चानुमीयते ४ तथास्वाभाव्यादेव अनुकूलसामग्यभावाद्वा बहिर्नाड्या न श्रेण्यारम्भ इति. ५ व्यावहारिकी विदिगत्र, अन्यथा व्यवस्थानाभावात्. * स्थूरत्वाच्च १-३-५-६ + स्यां वा १-२-३-४.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ १७ ॥
www.jainelibrary.org