SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ समस्तमेव लोकमिति, आह - यद्येवं 'कइ०' त्तिगाहा, अयं सूत्रतोऽभिसंबन्धः, अथवाऽर्थतः प्रतिपाद्यते, आह- द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्द, मन्दपरिणामत्वात्तद्रव्याणामित्युक्तं, तत्र किं परतोऽपि द्रव्याणामागतिरस्ति ?, यथा च विषयाभ्यन्तरे नैरन्तैर्येण तद्वासनासामर्थ्य, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केंपाश्चित् कृत्स्नलोकव्याप्तेः, आह— यद्येव - कइहि समएहि लोगो, भासाइ निरन्तरं तु होइ फुडो । लोगस्स य कइभागे, कइभागो होइ भासा ॥ १० ॥ 'व्याख्या– 'कतिभिः समयैः' 'लोकः' लोक्यत इति लोकः चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः व्याप्तः पूर्ण इत्यनर्थान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः १ ॥ १० ॥ अत्रोच्यतेचउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य चरमंते, चरमंतो होइ भासाए ॥ ११ ॥ व्याख्या - चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह- किं सर्वथैव भाषया उत विशिष्टयैवेति, उच्यते, विशिष्टया, कथम् ? –- इह कश्चिन्मन्दप्रयत्लो वक्ता भवति, स भिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च १ पूर्वसूत्रे 'ओरालियवेडविये' त्यादिप्रतिपादनात् २ 'भासासमसेढीओ' इत्यादौ श्रोत्रेन्द्रियादीनां द्वादशयोजनादिरूपस्य विषयस्य प्रतिपादनात् वृत्तिकृता. मैं मन्दपरिणामलक्षणं विशेषहेतुं श्रुत्वा द्रव्यगतौ प्रश्नः ४ द्वादशसु योजनेषु. ५ विषयकथनात् शब्दद्रव्याणां वासकत्वात् वास्यैः पूर्णत्वाच्च लोकस्येति वा. ६ श्रोत्रेन्द्रियग्राह्यत्वेऽनुमानज्ञापनाय केषाञ्चिदित्यादि. ७ शब्दद्रव्याणां केषाञ्चिल्लोकव्याप्तिप्रतिपत्तौ ८ न तु पञ्चास्तिकायरूपो द्रव्यक्षेत्रादिरूपो वा. ९ परमाणोः सप्तप्रदेशा यथा स्पर्शना तथा नात्रेत्यनर्थान्तरदर्शनं. * सर्वयैव १-३-५-६. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy