________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
व्याख्या-तत्र औदारिकवानौदारिकः, इहौदारिकशब्देनाभेदोपचाराद् मतुब्लोपाद्वा औदारिकशरीरिणो ग्रहणमिति, एवं वैक्रियवान्वैक्रियः, आहारकवानाहारक इति । असौ औदारिकादिः, 'गृह्णाति' आदत्ते 'मुश्चति' निसृजति च, भाष्यत इति भाषा तां भाषां,शब्दप्रायोग्यतया तद्भावपरिणतद्रव्यसंहतिमित्यर्थः। किंविशिष्टामित्याह-सतां हितासत्या,सन्तो मुनय| स्तदुपकारिणी सत्येति, अथवा सन्तो मूलोत्तरगुणास्तदनुपघातिनी सत्या, अथवा सन्तः पदार्था जीवादयः तद्धिता| तत्प्रत्यायनफला जनपदसत्यादिभेदा सत्येति, तां सत्यां, सत्याया विपरीतरूपा क्रोधाश्रितादिभेदा मृषेति तां, तथा तदुभयस्वभावा वस्त्वेकदेशप्रत्यायनफला उत्पन्नमिश्रादिभेदा सत्यामृषेति तां, तथा तिसृष्वप्यनधिकृता शब्दमात्रस्वभावाऽsमन्त्रण्यादिभेदा असत्यामृषेति तां च, चशब्दः समुच्चयार्थः,आसां च स्वरूपमुदाहरणयुक्तानां सूत्रांदवसेयमिति माथार्थः ॥९॥
आह–'औदारिकादिः गृह्णाति मुञ्चति च भाषां' इत्युक्तं, सा हि मुक्ता उत्कृष्टतः कियत्क्षेत्रं व्यामोतीति, उच्यते,
प्रज्ञापनायाः, यतस्तत्र भाषालक्षणं पदमेकादशं "जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पहुच ६ सचे य । ववहार ७ भाव ८ जोगे ९] दसमे ओवम्मसच्चे १० य॥१॥ कोहे १माणे २ माया ३ लोभे ४ पेजे ५ तहेव दोसे ६ य । हासे ७ भए ८ य खाइय ९ उवघाइयणिस्सिया १० दस ॥२॥ आमंतणी १ आणवणी २ जायणी ३ तह पुच्छणी ४ य पण्णवणी ५ । पञ्चक्खाणी ६ भासा, भासा इच्छाणुलोमा ७ य ॥३॥ अणभिग्गहियाभासा 4, भासा अ अभिग्गहमि ९ बोद्धवा । संसयकरणी भासा १० वोगड ११ अब्बोगडा १२ चेव ॥ ४ ॥ इति सत्यासत्यासत्यामृषास्वरूपं, सत्यमृषा तु |'उप्पण्णमीसिया १ विगयमीसिया २ उप्पण्णविगयमीसिआ ३ जीवमिस्सिया ४ अजीवमिस्सिा ५ जीवाजीवमिस्सिमा ६ अणंत मिस्सिा ७ परित्तमि| स्सिआ ८ अद्धामिस्सिा ९ भद्धद्धामीसिआ १०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org