SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ याऽप्रदेशात्मसंप्रत्यय इत्यत आह-जीवस्य आत्मभूता भवन्ति, ततश्चानेन निष्प्रदेशजीववादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गाभावः, तदेकत्वापत्तेः, कथम् ?-करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसंबद्धात्मप्रदेशेभ्यो भेदाभेदविकल्पानुपपत्तेरिति । य: किं करोतीत्याह-'यैस्तु गृह्णाति' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -न सर्वदैव गृह्णाति, किन्तु तत्परिणामे सति, किं ?-गृह्यत इति ग्रहणं, ग्रहणमिति “कृत्यल्युटो बहुलं" (पा०३-३-११३) इतिवचनात्कर्मकारकं, शब्दद्रव्यनिवहमित्यर्थः, 'ततो' गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह,सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, काम् ?भाष्यत इति भाषा तां भाषां। आह-'ततो भाषते भाषक' इत्यनेनैव गतार्थत्वाद्भाषाग्रहणमतिरिच्यते इति, न, अभिप्रायापरिज्ञानात् , इह भाष्यमाणैव भाषोच्यते, न पूर्व नापि पश्चादू, इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः ॥८॥ यदुक्तं-'त्रिविधे शरीरे' इत्यादि, तत्र न ज्ञायते कतमत् त्रैविध्यमिति, अतस्तदभिधातुकाम आहओरालियवेउब्वियआहारो गिण्हई मुयइ भासं । सच्चं मोसं सच्चामोसं च असच्चमोसं च॥९॥ अभेदषष्ट्या तत्रस्थाः प्रदेशा जीवाभिन्नाः, एतदेव च जीवस्येत्युच्चारणे फलं, अन्यथा 'जीवप्रदेशा' इत्यनेन संबद्धार्थावगमात्. २ नैयायिकवैशेषि| कादयः, तन्मते हि नित्यं निरवयवमेव, सावयवत्वे हि कार्यत्वापत्या अनित्यत्वापत्तिः, घटादीनामिव । ३ करचरणादयो हिसावयवा इत्युभयसंमतं, आत्मा च तैः प्रत्यवयवमेव संयुज्यते, संयोगश्च स्यात्तदा यदि स्यादात्मा सावयवः, प्रतिप्रदेशं च संयोगवान् , ततो निष्प्रदेशे करचरणाद्यवयवसंयोगो न स्यादात्मनः, | संसर्गे हि निष्प्रदेशस्यात्मनः करादिभिः, करादीनामपि निष्प्रदेशकात्मनः प्रत्यवयवेन संसर्गात्स्वरूपापत्त्या निष्प्रदेशत्वेनैकत्वापत्तिः, ४ भेदे सावयवत्वात्प्रतिज्ञातहानिः, अभेदे भिन्नावयवसंयोगानुपपत्तेस्तदेकतरेण सात्मकता न सवैरित्यनिष्टेः. ५ जीवप्रदेशः. ६ भाषणपरिणामे. ७ निष्क्रिय आत्मनि. dalin Education International For Personal & Private Use Only M ainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy