________________
आवश्यक-
हारिभद्रीयवृत्तिः विभागः१
॥१५॥
ज्यत इति, अतः पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति । तथा एकेन समयेन गृह्णाति एकेन निसृजति, किमुक्तं भवति ?-ग्रहणसमयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति । अथवा एकसमयेन गृह्णात्येव, आद्येन, न निसृजति, तथा एकेन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्थगम्यौ इत्यतोऽविरोध इति । आह-ग्रहणनिसर्गप्रयत्नौ आत्मनः परस्परविरोधिनी एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गुल्याकाशदेशसंयोगविभागक्रियावच्च क्रियाद्वयस्वभावोपपत्तेरिति गाथार्थः॥७॥
यदुक्तं-गृह्णाति कायिकेन' इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारकतैजसकार्मणभेदभिन्न|त्वात्तस्य, ततश्च किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाहतिविहंमि सरीरंमि, जीवपएसा हवन्ति जीवस्स । जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं ॥८॥ __व्याख्या-'त्रिविधे' त्रिप्रकारे, शीर्यत इति शरीरं तस्मिन् , औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः, भवन्ति, एतावत्युच्यमाने 'भिक्षोः पात्रं' इत्यादौ षष्ठया भेदेऽपि दैर्शनात् मा भूदू भिन्नप्रदेशत
१ निसर्गात्. २ समयेन. ३ प्रागिति. ४ अर्थापत्तितो ज्ञेयौ, अन्यथाऽऽद्यान्त्यसमयग्रहणनिसर्गावधारणानुपपत्तेः. ५ मनोवाक्काययोगानामात्मव्यापाररूपस्वात् , आत्मनश्चकत्वात् , एकसमये परस्परविरुद्धक्रियाकरणानुपपत्तिरित्यर्थः. ६ यावदन्तिम गुणस्थानं भाग्येव बन्धः कर्मणां, तद्विपाकवेदतश्च निसर्गः तेषामनुसमयं, आगमोपपन्ने च तस्मिन्नविरोधो यथा तथाऽनापीत्यर्थः,. * प्रदर्शनात्.
॥१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org