________________
पत्रिका 'अर्हत्ता'
तावत्तः, तथा विनयक
कृतकृत्यस्यायुक्तमत
भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थः॥५६६ ॥ आह-कृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीति ?, उच्यतेतप्पुब्विया अरहया पूइयपूता य विणयकम्मं च । कयकिच्चोऽवि जह कहं कहए णमए तहा तित्थं ॥५६७ ॥ ___ व्याख्या-तीर्थ-श्रुतज्ञानं तत्पूर्विका 'अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद् , भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात् , उक्तं च-'तं च कथं वेदिज्जती'त्यादि गाथार्थः ॥ ५६७ ॥ आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्तमिति ?, उच्यतेजत्थ अपुव्वोसरणं न दिपुव्वं व जेण समणेणं । बारसहिं जोयणेहिं सो एइ अणागमे लहुया ॥५६८॥ ___ व्याख्या-यत्रापूर्व समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः,न दृष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति लहुग' त्ति चतुर्लघवःप्रायश्चित्तं भवतीति गाथार्थः॥५६८॥द्वारम्॥ अन्ये त्वेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते,साऽप्यविरुद्धा व्युत्पन्ना चेति ॥रूपपृच्छाद्वारावयवार्थ विवृण्वन् आह
सव्वसुरा जइ रूवं अंगुठ्ठपमाणयं विउव्वेजा। जिणपायंगुहं पइ ण सोहए तं जहिंगालो॥५६९ ॥ * तच कथं वेद्यते ?.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org