________________
आवश्यक
॥२३५॥
व्याख्या - कीदृ भगवतो रूपमित्यत आह- सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्मापणशक्त्या अङ्गुष्ठप्रमाणकं विकु वरन् तथापि जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाऽङ्गार इति गाथार्थः ॥ ५६९ ॥ साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सयाऽऽह—
गणहर आहार अणुत्तरा (य) जाव वण चक्कि वासु बला । मण्डलिया ता हीणा छडाणगया भवे सेसा || ५७० ॥
व्याख्या - तीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सकाशादनन्तगुणहीनाः खल्वाहारकदेहाः, आहारक देहरूपेभ्योऽनन्तगुणहीना: 'अनुत्तराश्चे' ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तरदेहरूपेभ्योऽनन्तगुणहानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तक ब्रह्मलोक माहेन्द्रसनत्कुमारेशान सौधर्मभवनवासिज्योतिष्कव्यन्तरचक्रवर्त्तिवासुदेव बलदेवमहामाण्डलिकानामित्यत एवाह - 'जाव वण चक्कि वासु बला । मंडलिया ता हीणत्ति' यावत् व्यन्तरचक्रवर्त्तिवासुदेव बलदेवमाण्डलिकास्तावत् अनन्तगुणहीनाः, 'छडाणगया भवे सेस'ति शेषा राजानो जनपदलोकाश्च पट्स्थानगता भवन्ति, अनन्तभागहीना वा असङ्ख्येयभागहीना वा सङ्ख्येय भागहीना वा सङ्ख्येयगुणहीना वा असङ्ख्य गुणहीना वा अनन्तगुणहीना वा इति गाथार्थः ॥ ५७० ॥ उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासङ्गिकं रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह -
संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा । एमाइणुत्तराई हवंति नामोदए तस्स ॥ ५७१ ॥ व्याख्या – ' संहननं' वज्रऋषभनाराचं 'रूपम्' उक्तलक्षणं 'संस्थानं' समचतुरस्रं 'वर्णो' देहच्छाया 'गतिः' गमनं
Jain Education national
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥२३५॥
www.jainelibrary.org