SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ AAAAAAACRORE गमनिका-समहेन्द्राः कल्पसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः॥ भावार्थः सर्वासां सुगम एव ॥ अभिहितार्थोपसङ्घहाय इदमाह| एक्केकीय दिसाए तिगं तिगं होइ सन्निविडं तु । आदिचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं ॥५६१॥ व्याख्या-पूर्वदक्षिणाअपरदक्षिणाअपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि| त्रिक त्रिकं भवति सन्निविष्टं तु, आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिगद्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिगूद्वये । ६ प्रत्येकं भवन्तीति गाथार्थः॥५६७ ॥ तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आह एतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता।णवि जंतणा ण विकहाण परोप्परमच्छरोण भयं ॥५६२॥ PI व्याख्या-येऽल्पर्द्धयः पूर्व स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्द्धिक पश्चादागताः प्रणमन्तो ६ ब्रजन्ति, तथा नापि यन्त्रणा-पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतो ऽनुभावात्, इति गाथार्थः॥ ५६२॥ एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः, यत आहबिइयंमि होति तिरिया तइए पागारमन्तरे जाणा।पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा ॥५६३॥ व्याख्या-द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते द बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येक मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति | निर्गच्छन्तश्चैके इति गाथार्थः ॥ ५६३ ॥ द्वारम् १ । द्वितीयद्वारावयवार्थमभिधित्सुः संबन्धगाथामाह in Educon Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy