SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२३३॥ मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वा स्पष्टाक्षरैनकम्, अवस्थानमात्रमेव प्रतिपादितं पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन । 'जं च निस्साए त्ति, यः परिवारो यं च निनां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः ॥ ५६० ॥ साम्प्रतमभिहितमेवार्थ संयतादिपूर्व द्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकारः - | संजय वेमाणित्थी संजय (इ) पुत्र्वेण पविसिउं वीरं। काउं पयाहिणं पुग्वदक्खिणे ठंति दिसि भागे ॥ ११६॥ (भा०) गमनिका - संयता वैमानिकस्त्रियः संयत्यः पूर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः ॥ जोइसिय भवणवंतरदेवीओ दक्खिणेण पविसंति । चिट्ठति दक्खिणावर दिसिंमि तिगुणं जिणं काउं ॥ ११७ ॥ ( भाष्यम् ) गमनिका - ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुणं जिनं कृत्वा इति गाथार्थः ॥ अवरेण भवणवासी वंतरजोइससुरा य अइगंतुं । अवरुत्तरदिसिभागे ठंति जिणं तो नमसित्ता ॥ ११८ ॥ ( भा० ) गमनिका – अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम् अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य | इति गाथार्थः ॥ समहिंदा कप्पसुरा राया णरणारिओ उदीर्णणं । पविसित्ता पुत्र्वुत्तर दिसीऍ चिठ्ठति पंजलिआ ॥ ११९ ॥ (भा०) Jain Educational For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥२३३॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy