________________
व्याख्या-तीर्थ' गणधरस्तस्मिन् स्थिते सति 'अतिसेससंजय'त्ति अतिशयिनः संयताः, तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः॥ ५५८ ॥ अवयवार्थप्रतिपादनाय आहकेवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स । मणमादीवि णमंता वयंति सट्ठाणसट्ठाणं ॥५५९॥ ___ व्याख्या केवलिनः 'त्रिगुणं' त्रिःप्रदक्षिणीकृत्य 'जिन' तीर्थकर तीर्थप्रणामं च कृत्वा मार्गतः तस्य' तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, 'मणमाईवि नमंता वयंति सट्ठाणसठ्ठाणं ति मनःपर्यायज्ञानिनोऽपि भगवन्तमभिवन्ध तीर्थ केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति । आदिशब्दान्निरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनःपर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथमं भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्याय-16 ज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थः॥ ५५९ ॥ भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य । वेमाणिया य मणुया पयाहिणं जं च निस्साए ॥५६०॥ | व्याख्या-भवनपतयः ज्योतिष्का बोद्धव्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तर-8
पश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः। पाकिम् ?-'पयाहिणं' प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति ॥५६०॥ अत्र च
Join Education International
For Personal & Private Use Only
ww.jainelibrary.org