SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२३२॥ 'पद्मयोः सहस्रपत्रयोः देवपरिकल्पितयोः पादौ स्थापयन्निति वाक्यशेषः, 'मग्गेण य होंति सत्तऽण्णेत्ति मार्गतश्च पृष्ठतश्च हारिभद्रीभवन्ति सप्तान्ये च भगवतः पद्मा इति,तेषांच यद्यत् पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतःपुरतस्तिष्ठतीति गाथार्थः ॥५५५॥ यवृत्तिः | आयाहिण पुव्वमुहो तिदिसिं पडिरूवगाउ देवकया। जेट्टगणी अण्णो वा दाहिणपुब्वे अदूरंमि ॥५५६॥ | विभागः१ __ व्याख्या-स एवं भगवान् पूर्वद्वारेण प्रविश्य 'आदाहिण'त्ति चैत्यद्रुमप्रदक्षिणां कृत्वा 'पुवमुहो'त्ति पूर्वाभिमुख | उपविशतीति, 'तिदिसिं पडिरूवगा उ देवकय'त्ति शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकराकृतीनि सिंहासनादियुक्तानि देवकृतानि भवन्ति, शेषदेवादीनामप्यस्माकं कथयतीति प्रतिपत्त्यर्थमिति, भगवतश्च पादमूलमेकेन गणधरेणाविरहितमेव भवति, स च ज्येष्ठो वाऽन्यो वेति,प्रायोज्येष्ठ इति,स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदतीति क्रियाऽध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्द्य तीर्थकरस्य 8 मार्गतः पार्श्वतश्च निषीदन्तीति गाथार्थः ॥५५६॥ भुवनगुरुरूपस्य त्रैलोक्यगतरूपसुन्दरतरत्वात् त्रिदशकृतप्रतिरूपकाणां किं तत्साम्यमसाम्य वेत्याशङ्कानिरासार्थमाह जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स । तेसिपि तप्पभावा तयाणुरूवं हवइ रूवं ॥५५७॥ ___ व्याख्या-यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि 'तत्प्रभावात्' तीर्थकरप्रभावात् ॥२३॥ 'तदनुरूपं तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थः॥ ५५७ ॥ तित्थाइसेससंजय देवी वेमाणियाण समणीओ। भवणवइवाणमंतर जोइसियाणं च देवीओ ॥५५८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy