________________
चेइदुमपेढछंदय आसणछत्तं च चामराओ य । जं चऽण्णं करणिनं करेंति तं वाणमंतरिया ॥५५३ ॥ व्याख्या-चैत्यगुमम्-अशोकवृक्षं भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रत्नमयं तस्योपरि देवच्छन्दक तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चः समुच्चये, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रं च, यच्चान्यदातोदकादि 'करणीय' कर्त्तव्यं कुर्वन्ति तद् व्यन्तरां देवा इति गाथार्थः॥ ५५३ ॥ आह-किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत नेति, अत्रोच्यते___ साहारणओसरणे एवं जस्थिढिमं तु ओसरइ । एक्कु चिय तं सव्वं करेइ भयणा उ इयरेसिं ॥ ५४॥
व्याख्या साधारणसमवसरणे एवं साधारणं-सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, 'जत्थिक्लिमंतु ओसरइति यत्र तु ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्व करोति, अत एव च मूलटीकाकृताऽभ्यधायि-"असोगपायवं जिणउच्चत्ताओ बारसगुणं सक्को विउबई" इत्यादि, 'भयणा उ इतरेसिं' ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः॥ ५५४॥
सूरोदय पच्छिमाए ओगाहन्तीएँ पुवओऽईइ । दोहि पउमहिं पाया मग्गेण य होइ सत्तऽन्ने ॥५५५॥ व्याख्या-एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम् , अन्यदा पश्चिमायां 'ओगाहंतीए'त्ति अवगाहन्त्याम्-आगच्छन्त्यामित्यर्थः, 'पुबओऽतीती'ति पूर्वद्वारेण 'अतीति'त्ति आगच्छति प्रविशतीत्यर्थः कथमित्याह-द्वयोः
Jain Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org