SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२३०॥ यो विधिरसौ वक्तव्यः, 'उवरि तित्थं ति उपरीति पौरुष्यामतिक्रान्तायां तीर्थमिति-गणधरो देशनां करोतीति गाथासमुदा हारिभद्रीयार्थः । अवयवार्थं तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि दृश्यते, इह पुनयुज्यते, द्वारनियमतोs | यवृत्तिः संमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति ॥ ५४३॥ आह-इदं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे विभागः१ तत्रैव नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थ विवृण्वन्नाहजस्थ अपुव्वोसरणं जत्थ व देवो महिड्डिओ एइ । वाउदयपुप्फवद्दलपागारतियं च अभिओगा ॥५४४ ॥ __ व्याख्या-यत्र क्षेत्रे अपूर्व समवसरणं भवति, अवृत्तपूर्वमित्यर्थः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः 'एति' आगच्छति, तत्र किमित्याह-वातं रेवाद्यपनोदाय उदकवलं भाविरेणुसंतापोपशान्तये तथा पुष्पवलं क्षितिविभूषायै, वईलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते,तथा प्राकारत्रितयं च सर्वमेतदभियोगमर्हन्तीत्याभियोग्याः-देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथार्थः॥५४४॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषेण प्रतिपादयन्नाह मणिकणगरयणचित्तं भूमीभागं समंतओ सुरभि । आजोअणंतरेणं करेंति देवा विचित्तं तु ॥५४५॥ ॥२३॥ व्याख्या-मणयः-चन्द्रकान्तादयः कनक-देवकाञ्चनं रत्नानि-इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जल-15 समुद्भवानि रत्नानि, तैश्चित्रं, भूभागं 'समन्ततः' सर्वासु दिक्षु 'सुरभिं' सुगन्धिगन्धयुक्तं, किम् ?-कुर्वन्ति देवा विचित्रं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy