________________
OSONAMAVASAAMSABSCAM
तु, किंपरिमाणमित्याह-आयोजनान्तरतो' योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम् , अथवा कुर्वन्ति देवा विचित्रं तु, किंभूतम् ?-मणिकनकरत्नविचित्रमिति गाथार्थः॥५४५॥ | वेंटट्ठाई सुरभि जलथलयं दिव्वकुसुमणीहारिं । पइरंति समन्तेणं दसद्धवण्णं कुसुमवासं ॥५४६॥ ___ व्याख्या-वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्झरि प्रकिरन्ति समन्ततः दशार्द्धवर्ण कुसुमवर्ष, भावार्थः सुगमो, नवरं निहारि-प्रबलो गन्धप्रसर इति गाथार्थः ॥ ५४६ ॥
मणिकणगरयणचित्ते चउद्दिसिं तोरणे विउव्वंति । सच्छत्तसालभंजियमयरडयचिंधसंठाणे ॥५४७॥ | व्याख्या-मणिकनकरत्नचित्राणि 'चउद्दिसि'त्ति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंविशिष्टान्यत आहछत्र-प्रतीतं सालभञ्जिकाः-स्तम्भपुत्तलिकाः 'मकर'त्ति मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थानतद्रचनाविशेष एव, सच्छोभनानि छत्रसालभञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तरदेवाः कुर्वन्तीति गाथार्थः ॥ ५४७ ॥ तिन्नि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचणकविसीसगविभूसिए ते विउव्वेंति ॥ ५४८ ॥
व्याख्या-त्रींश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रामणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति,भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति ॥ ५४८॥ सा चेयम्अभंतर मज्झ बहिं विमाणजोइभवणाहिवकया उ । पागारा तिणि भवे रयणे कणगे य रयए य ॥५४९॥
Jain Education International
For Personal & Private Use Only
Miagainelibrary.org