________________
भवणवइवाणमंतरजोइसवासी विमाणवासी य ।
एसपरसा कासी नाणुप्पयामहिमं ॥ ११५ ॥ ( भाष्यम्) व्याख्या—भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वर्ज्या हेतुभूतया सपरिषदः कृतवन्तः ज्ञानोत्पत्तिमहिमाम् इति गाथार्थः ॥ साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्नेतां द्वारगाथामाह
समोसरणे केवया व पुच्छ वागरण सोयपरिणामे ।
दाणं च देवमल्ले मल्लणयणे उवरि तित्थं ॥ ५४३ ॥ दारगाहा ॥
व्याख्या – 'समोसरणे' त्ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः । 'केवइय'त्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते ?, कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना आगन्तव्यमिति । 'रूवत्ति' भगवतो रूपं व्यावर्णनीयं, 'पुच्छ' त्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्योंत्तरं च वक्तव्यं, कियन्तो वा युगपदेव हृद्गतं संशयं पृच्छन्तीति, 'वागरणं' ति व्याकरणं भगवतो वक्तव्यं, यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, 'पुच्छावागरणं' ति एकं वा द्वारं, पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यं, 'सोयपरिणामे' त्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः, यथा - सर्वश्रोतॄणां भागवती वाक् स्वभाषया परिणमत इति । 'दाणं च 'त्ति वृत्तिदानं प्रीतिदानं च कियत् प्रयच्छन्ति चक्रवर्त्त्यादयः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं । 'देवमल्ले'त्ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्यं - त्रल्यादि कः करोति कियत्परिमाणं चेत्यादि । 'मलाणयणे' त्ति माल्यानयने
Jain Educational
For Personal & Private Use Only
www.jainelibrary.org