SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ हारिभद्रीयवृत्तिः विभागः१ आवश्यक- देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेष पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्मेषु चरण-| न्यासं कुर्वन् मध्यमानगर्या महसेनवनोद्यानं संप्राप्त इति गाथार्थः॥५३९ ॥ ॥२२९॥ P अमरनररायमहिओ पत्तो धम्मवरचक्कवहितं । बीयपि समोसरणं पावाए मझिमाए उ ॥५४०॥ B व्याख्या-स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः-पूजितः प्राप्तः, किमित्याह-धर्मइश्चासौ वरश्च धर्मवरः तस्य चक्रवर्तित्वं, तत्प्रभुत्वमित्यर्थः । पुनर्द्वितीयं समवसरणम् , अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः, पापायां मध्यमायां, प्राप्त इत्यनुवर्त्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः ॥ ५४०॥ तत्थ किल सोमिलजोत्ति माहणो तस्स दिक्खकालंमि।पउरा जणजाणवया समागया जन्नवाडंमि ॥ ५४१ ॥ व्याख्या-तत्र' पापायां मध्यमायां, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य 'दीक्षाकाले' यागकाल इत्यर्थः, 'पौराः' विशिष्टनगरवासिलोकसमुदायः 'जना' सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः ॥ ५४१॥ अत्रान्तरे एगंते य विवित्ते उत्तरपासंमि जन्नवाडस्स । तो देवदाणविंदा करेंति महिम जिणिंदस्स ॥५४२॥ व्याख्या-एकान्ते च विविक्के उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरम् वा 'कासी महिमं जिणिंदस्स' कृतवन्त इति गाथार्थः॥ ५४२ ॥ अमुमेवार्थ किश्चिद्विशेषयुक्तं भाष्यकार: प्रतिपादयन्नाह ॥२२९॥ dain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy