SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ SARALLUMAMROSAROKAROCE व्याख्या-प्रव्रज्यायाः सम्बन्धिभूतं दिवसं प्रथमम् ‘एत्थं तु' अत्रैवोक्तलक्षणे दिवसगणे प्रक्षिप्य संकलिते तु सति यल्लब्धं तत् 'निशामयत' शृणुतेति गाथार्थः॥ ५३६ ॥ बारस चेव य वासा मासा छच्चेव अद्धमासो य । वीरवरस्स भगवओ एसो छउमस्थपरियाओ ॥ ५३७॥ व्याख्या-द्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति गाथार्थः ॥ ५३७ ॥ एवं तवोगुणरओ अणुपुत्वेणं मुणी विहरमाणो । घोरं परीसहचमुं अहियासित्ता महावीरो॥५३८॥ व्याख्या एवम्' उक्तेन प्रकारेण तपोगुणेषु रतः-तपोगुणरतः 'अनुपूर्वेण' क्रमेण मन्यते जगतस्त्रिकालावस्थामिति मुनिः विहरन् 'घोरां' रौद्रां 'परीषहच' परीषहसेनामधिसह्य महावीर इति गाथार्थः ॥ ५३८ ॥ ___उप्पण्णमि अणंते नटुंमि य छाउमथिए नाणे । राईए संपत्तो महसेणवणमि उजाणे ॥५३९॥ व्याख्या-'उत्पन्ने' प्रादुर्भूते कस्मिन् ?-'अनन्ते' ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच्च केवलमनन्तं, नष्टे च छाझस्थिके ज्ञाने, राज्यां संप्राप्तो महसेनवनमुद्यानं, किमिति ?-भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अप्यागता आसन्, तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान् , ततो द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्त्तमात्रं देवपूजां जीतमितिकृत्वा अनुभूय Jain Education International For Personal & Private Use Only wwitjainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy