________________
आवश्यक
॥२२८॥
व्याख्या — दश द्वे च सङ्ख्या द्वादशेत्यर्थः, किल महात्मा 'ठासि मुणि' त्ति स्थितवान् मुनिः, एकरात्रिकीं प्रतिमां पाठान्तरं वा 'एकराइए पडिमेति एकरात्रिकीः प्रतिमाः, कथमित्याह 'अष्टमभक्तेन' त्रिरात्रोपवासेनेति हृदयम्, 'यतिः' प्रयत्नवान्, एकैकां 'चरमरात्रिकी' चरमरजनीनिष्पन्नामिति गाथार्थः ॥ ५३२ ॥
दो चेव य छट्टसए अडणातीसे उवासिया भगवं । न कयाइ निश्चभत्तं चउत्थभत्तं च से आसि ॥ ५३३ ॥ व्याख्या - द्वे एव च षष्ठशते एकोनत्रिंशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्याssसीदिति गाथार्थः ॥ ५३३ ॥
बारस वासे अहिए छहं भत्तं जहण्णयं आसि । सव्वं च तवोकम्मं अपाणयं आसि वीरस्स ॥ ५३४ ॥
व्याख्या - द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः 'पष्ठं भक्तं ' द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वे च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति - क्षीरादिद्रवाहार भोजन काललभ्यव्यतिरेकेण पानकपरिभोगो नाssसेवित इति गाथार्थः ॥ ५३४ ॥ पारणककालमानप्रतिपादनायाह
तिष्णि सर दिवसाणं अउणावण्णं तु पारणाकालो । उक्कुडुयनिसेज्जाणं ठियपडिमाणं सए बहुए ॥ ५३५ ॥ व्याख्या - त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा 'उत्कुटुकनिषद्यानां' स्थितप्रतिमानां शतानि बहूनीति गाथार्थः ॥ ५३५ ॥
पव्वज्जाए पढमं दिवसं एत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लद्धं तं निसामेह ॥ ५३६ ॥
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥२२८॥
www.jainelibrary.org