________________
-SARORAKAR
नव किर चाउम्मासे छफिर दोमासिए उवासीय । बारस य मासियाई बावत्तरि अडमासाई ॥५२८॥
व्याख्या-नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः ॥ ५२८ ॥
एग किर छम्मासं दो किर तेमासिए उवासीय । अड्डाइजाइ दुवे दो चेव दिवड्डमासाई॥५२९॥ व्याख्या-एक किल षण्मासं द्वे किल त्रैमासिके उपोषितवान् , तथा 'अड्डाइजाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं तपः-क्षपणं वाऽर्धतृतीयं, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवहुमासाई' ति सार्धमासे तपसी18 क्षपणे वा,क्रियायोगोऽनुवर्तत एवेति गाथार्थः॥५२९ ॥
भदं च महाभदं पडिम तत्तो य सव्वओभई । दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं ॥ ५३०॥ व्याख्या-भद्रां च महाभद्रां प्रतिमा ततश्च सर्वतोभद्रा स्थितवान, अनुबद्धमिति योगः, आसामेवानुपूर्त्या दिवसप्रमाणमाह-द्वौ चतुरः दशैव च दिवसान स्थितवान्, अनुबद्धं-सन्ततमेवेति गाथार्थः॥ ५३०॥ गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय । पंचदिवसेहि ऊणं अव्वहिओ वच्छनयरीए ॥५३१॥ | व्याख्या-गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पञ्चभिर्दिवसैन्यूँनम्, 'अव्यथितः15 अपीडितो 'वत्सानगाँ' कौशाम्ब्यामिति गाथार्थः॥५३१॥
दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एक्कक्कं चरमराईयं ॥५३२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org