SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ मेव' शीघ्रमेव 'निलुक्कोत्ति' देशीवचनतो विरतः 'यदा' यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः॥ स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराहकाऊण नमोकारं सिद्धाणमभिग्गहं तु सोगिण्हे।सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो ॥१०९॥(भा०), व्याख्या-कृत्वा नमस्कार सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह-सर्व 'मे' मम 'अकरणीयंन कर्त्तव्यं, किं तदित्याह-पापमिति, किमित्याह-चारित्रमारूढ इतिकृत्वा, स च भदन्तशब्दरहितं सामायिकमुच्चारयतीति गाथार्थः॥ चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति । अत्रान्तरे कथानकम्-एगेण देवदूसेण पचएइ, एतं जाहे असे करेइ एत्थंतरा पिउवयंसो धिजाइओ उवडिओ, सो अ दाणकाले कहिंपि पवसिओ आसी, आगओ भज्जाए अंबाडिओ, सामिणा एवं परिचत्तं, तुमं च पुण वणाइ हिंडसि, जाहि जइ इत्थंतरेऽवि लभिजासि । सो भणइ-सामि ! तुब्भेहिं मम न किंचि दिण्णं, इदाणिपि मे देहि । ताहे सामिणा तस्स दूसस्स अद्धं दिण्णं, अन्नं मे नत्थि परिचत्तंति । तं तेण तुण्णागस्स उवणीअं जहा एअस्स दसिआओबंधाहि । कत्तोत्ति एकेन देवदूष्येण प्रव्रजति, एतद् यदाउंसे करोति, अत्रान्तरे पितृवयस्यो धिग्जातीयः उपस्थितः, स च दानकाले कुत्रापि प्रोषितोऽभवत्, भागतो भार्यया तर्जितः-स्वामिना एवं परित्यक्तं, त्वं च पुनर्वनानि हिण्डसे, याहि यद्यत्रान्तरेऽपि लभेथाः । स भणति-स्वामिन् ! युष्माभिर्मम न किञ्चिदत्तं, इदानीतिमपि मह्यं देहि । तदा स्वामिना तस्मै तूष्यस्यार्धं दत्तं, अन्यन्मे नास्ति परित्यक्तमिति । तत्तेन तुन्नवायायोपनीतं यथैतस्य दशा बधान । कुत इति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy