________________
आवश्यक॥१८५॥
पुवि उक्खित्ता माणुसेहिँ सा हट्ठरोमकूवेहिं । पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ॥ ९८ ॥ ( भा० ) व्याख्या - 'पूर्व' प्रथमं 'उत्क्षिप्ता' उत्पाटिता, कैः ? - मानुषैः, सा शिबिका, किंविशिष्टैः ? - हृष्टानि रोमकूपानि येषामितिसमासः, तैः । पश्चाद्वहन्ति शिविकां, के ? - असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः ॥ असुरादिस्वरूपव्यावर्णनायाहचलचवलभूसणधरा सच्छंदविउग्विआभरणधारी । देविंददाणविंदा वहति सीअं जिणिंदस्स ॥ ९९ ॥ ( भा० )
गमनिका — चलाश्च ते चपलभूषणधराश्चेति समासः । चलाः- गमनक्रियायोगात् हारादिचपलभूषणधराश्च । स्वच्छन्देन - स्वाभिप्रायेण विकुर्वितानि - देवशक्त्या कृतानि आभरणानि - कुण्डलादीनि धारयितुं शीलं येषामिति समासः । अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे व्यवच्छेदार्थमाह'स्वच्छन्दविकुर्विताभरणधारिणः क एते ? - देवेन्द्रा दानवेन्द्राः, किम् ? वहन्ति शिबिकां जिनेन्द्रस्येति गाथार्थः॥ अत्रान्तरेकुसुमाणि पंचवण्णाणि मुयंता दुंदुही य ताडंता । देवगणा य पहठ्ठा समंतओ उच्छयं गयणं ॥ १०० ॥ ( भा० )
व्याख्या - भगवति शिबिकारूढे गच्छति सति नभःस्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुदुम्भींस्ताडयन्तश्च, के ? - ' देवगणाः' देवसंघाताः, चशब्दस्य प्राक्संबन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किम् ?भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवद्भिर्देवैः किमित्याह - 'समन्ततः' सर्वासु दिक्षु सर्व 'उच्छयं गगणं' व्याप्तं गगनमिति गाथार्थः ॥
| वणसंडोव्व कुसुमिओ पउमसरो वा जहा सरयकाले । सोहइ कुसुम भरेणं इय गगणयलं सुरगणेहिं । १०१ भा० )
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥१८५॥
www.jainelibrary.org