________________
व्याख्या-आलइअं आविद्धमुच्यते, माला-अनेकसुरकुसुमग्रथिता, मुकुटस्तु प्रसिद्ध एव, माला च मुकुटश्च माला-12 मुकुटौ आविद्धौ मालामुकुटौ यस्येति विग्रहः । भास्वरा-छायायुक्ता बोन्दी-तनुः यस्य स तथाविधः, प्रलम्बा वनमालाप्रागभिहिता अन्या वा यस्येति समासः। 'सेययवत्थनियत्थो' त्ति नियत्थं-परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः, बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्ते प्रयोगः, लक्षणतस्तु बहुव्रीही निष्ठान्तं पूर्व निपततीति पूर्व द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्यर्थः। यस्य च मूल्यं शतसहस्रं दीनाराणामिति गाथार्थः॥ स एवंभूतो भगवान् मार्गशीर्षबहुलदशम्यां हस्तोत्तरानक्षत्रयोगेन 'छठेणं भत्तेणं' इत्यादि, षष्ठेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः । अध्यवसानं-अन्तःकरणसव्यपेक्षं विज्ञानं तेन 'सुन्दरेण शोभनेन 'जिनः' पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानः मनोवाकायपूर्विकाः कृष्णादिद्रव्यसंबन्धजनिताः खलु आत्मपरिणामाः लेश्या इति, उक्तं च-"कृष्णादिद्रव्यसाचिव्यात् ,परिणामो य आत्मनः। स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" ताभिः विशुध्यमानः, किम् ?-आरोहति 'उत्तमा प्रधानां शिबिकामिति गाथार्थः॥ सीहासणे निसण्णो सक्कीसाणा य दोहि पासेहिं । वीअंति चामरेहिं मणिकणंगविचित्तदंडेहिं ॥९७॥ (भा०) ___ व्याख्या-तत्र भगवान् सिंहासने निषण्णः शक्रेशानौ च देवनाथौ द्वयोः पार्श्वयोः व्यवस्थितौ, किम् ?-वीजयतः, काभ्याम् ?-चामराभ्यां, किंभूताभ्याम् ?-मणिरत्नविचित्रदण्डाभ्यामिति गाथार्थः ॥ एवं भगवति शिविकान्तर्वतिनि सिंहासनारूढे सति सा शिविका सिद्धार्थोद्याननयनाय उत्क्षिप्ता ।। कैरित्याह
रयण वृत्ती.
AAAAAAAGAGAKARSA
Jain Education International
For Personal & Private Use Only
Alinelibrary.org